Click on words to see what they mean.

वायुरुवाच ।इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा ।अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ १ ॥
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः ।कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ २ ॥
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥ ३ ॥
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥ ४ ॥
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥ ५ ॥
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः ।त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥ ६ ॥
अथागम्य महाराज नमस्कृत्य च कश्यपम् ।पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥ ७ ॥
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥ ८ ॥
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः ।शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥ ९ ॥
भद्रा सोमस्य दुहिता रूपेण परमा मता ।तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥ १० ॥
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी ।उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥ ११ ॥
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् ।भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥ १२ ॥
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह ।स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥ १३ ॥
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति ।परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥ १४ ॥
न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् ।प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ।तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥ १५ ॥
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् ॥ १६ ॥
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ।प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥ १७ ॥
लोकपालोऽसि लोकानां न लोकस्य विलोपकः ।सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥ १८ ॥
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ।मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ।ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥ १९ ॥
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् ।उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥ २० ॥
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने ।न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥ २१ ॥
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ २२ ॥
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः ।सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥ २३ ॥
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः ।दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥ २४ ॥
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः ।तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ २५ ॥
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति ।अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥ २६ ॥
तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः ।अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥ २७ ॥
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् ।मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥ २८ ॥
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥ २९ ॥
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ ३० ॥
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः ।ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥ ३१ ॥
« »