Click on words to see what they mean.

महेश्वर उवाच ।परावरज्ञे धर्मज्ञे तपोवननिवासिनि ।साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ॥ १ ॥
दक्षे शमदमोपेते निर्ममे धर्मचारिणि ।पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥ २ ॥
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती ।मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ॥ ३ ॥
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला ।रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥ ४ ॥
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः ।पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥ ५ ॥
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि ।स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ॥ ६ ॥
सहधर्मचरी मे त्वं समशीला समव्रता ।समानसारवीर्या च तपस्तीव्रं कृतं च ते ।त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ॥ ७ ॥
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा ।गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ॥ ८ ॥
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता ।सुरकार्यकरी च त्वं लोकसंतानकारिणी ॥ ९ ॥
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे ।तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ॥ १० ॥
उमोवाच ।भगवन्सर्वभूतेश भूतभव्यभवोद्भव ।त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥ ११ ॥
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः ।उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ॥ १२ ॥
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः ।प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥ १३ ॥
स्त्री च भूतेश सततं स्त्रियमेवानुधावति ।मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥ १४ ॥
एषा सरस्वती पुण्या नदीनामुत्तमा नदी ।प्रथमा सर्वसरितां नदी सागरगामिनी ॥ १५ ॥
विपाशा च वितस्ता च चन्द्रभागा इरावती ।शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा ॥ १६ ॥
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता ।गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ॥ १७ ॥
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा ।स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ॥ १८ ॥
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला ।स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ॥ १९ ॥
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः ।तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शंकरे ॥ २० ॥
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् ।दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥ २१ ॥
भीष्म उवाच ।एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः ।ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ॥ २२ ॥
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता ।शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ॥ २३ ॥
बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा ।सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ॥ २४ ॥
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा ।या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ॥ २५ ॥
प्रभवन्पृच्छते यो हि संमानयति वा पुनः ।नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥ २६ ॥
ज्ञानविज्ञानसंपन्नानूहापोहविशारदान् ।प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति ॥ २७ ॥
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि ।अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ॥ २८ ॥
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते ।त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ॥ २९ ॥
भीष्म उवाच ।ततः साराधिता देवी गङ्गया बहुभिर्गुणैः ।प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ॥ ३० ॥
स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि ।तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ॥ ३१ ॥
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः ।सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ॥ ३२ ॥
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना ।अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ ३३ ॥
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी ।देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥ ३४ ॥
शुश्रूषां परिचारं च देववद्या करोति च ।नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥ ३५ ॥
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते ।या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ ३६ ॥
श्रुत्वा दंपतिधर्मं वै सहधर्मकृतं शुभम् ।अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ ३७ ॥
परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा ।सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥ ३८ ॥
न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते ।भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ॥ ३९ ॥
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् ।पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥ ४० ॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ।पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥ ४१ ॥
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा ।सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥ ४२ ॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ।स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥ ४३ ॥
कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता ।सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ॥ ४४ ॥
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ।देवतातिथिभृत्यानां निरुप्य पतिना सह ॥ ४५ ॥
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ।तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥ ४६ ॥
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता ।मातापितृपरा नित्यं या नारी सा तपोधना ॥ ४७ ॥
ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा ।बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥ ४८ ॥
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया ।पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥ ४९ ॥
पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः ।या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥ ५० ॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ।पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥ ५१ ॥
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् ।अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ॥ ५२ ॥
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् ।पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथंचन ॥ ५३ ॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ।आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥ ५४ ॥
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव ।या त्वेवंभाविनी नारी सा भवेद्धर्मभागिनी ॥ ५५ ॥
भीष्म उवाच ।इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् ।लोकान्विसर्जयामास सर्वैरनुचरैः सह ॥ ५६ ॥
ततो ययुर्भूतगणाः सरितश्च यथागतम् ।गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥ ५७ ॥
« »