Click on words to see what they mean.

उमोवाच ।किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः ।स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा ॥ १ ॥
महेश्वर उवाच ।दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु ।भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ॥ २ ॥
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा ।नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥ ३ ॥
आसनं शयनं यानं धनं रत्नं गृहांस्तथा ।सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ॥ ४ ॥
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः ।एवंभूतो मृतो देवि देवलोकेऽभिजायते ॥ ५ ॥
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् ।सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ ६ ॥
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते ।महाभोगे कुले देवि धनधान्यसमाचिते ॥ ७ ॥
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः ।महाभोगो महाकोशो धनी भवति मानवः ॥ ८ ॥
एते देवि महाभोगाः प्राणिनो दानशीलिनः ।ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ ९ ॥
अपरे मानवा देवि प्रदानकृपणा द्विजैः ।याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥ १० ॥
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि ।याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ ११ ॥
न धनानि न वासांसि न भोगान्न च काञ्चनम् ।न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ १२ ॥
अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः ।एवंभूता नरा देवि निरयं यान्त्यबुद्धयः ॥ १३ ॥
ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ १४ ॥
क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः ।निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ॥ १५ ॥
अल्पभोगकुले जाता अल्पभोगरता नराः ।अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ १६ ॥
अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः ।आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥ १७ ॥
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः ।पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ॥ १८ ॥
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि ।अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ॥ १९ ॥
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते ।अभिमानप्रवृत्तेन लोभेन समवस्थिताः ॥ २० ॥
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च ।एवंविधा नरा देवि सर्वे निरयगामिनः ॥ २१ ॥
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै ।वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ॥ २२ ॥
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ।कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥ २३ ॥
न स्तम्भी न च मानी यो देवताद्विजपूजकः ।लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ॥ २४ ॥
सर्ववर्णप्रियकरः सर्वभूतहितः सदा ।अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ॥ २५ ॥
स्वागतेनैव सर्वेषां भूतानामविहिंसकः ।यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ॥ २६ ॥
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् ।अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ॥ २७ ॥
एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते ।ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥ २८ ॥
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ।यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ॥ २९ ॥
संमतः सर्वभूतानां सर्वलोकनमस्कृतः ।स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥ ३० ॥
उदात्तकुलजातीय उदात्ताभिजनः सदा ।एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ ३१ ॥
यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः ।हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ ३२ ॥
लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने ।हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥ ३३ ॥
उपक्रामति जन्तूंश्च उद्वेगजननः सदा ।एवंशीलसमाचारो निरयं प्रतिपद्यते ॥ ३४ ॥
स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् ।बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ॥ ३५ ॥
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः ।एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ ३६ ॥
अपरः सर्वभूतानि दयावाननुपश्यति ।मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ ३७ ॥
नोद्वेजयति भूतानि न विहिंसयते तथा ।हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ॥ ३८ ॥
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च ।उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ॥ ३९ ॥
एवंशीलसमाचारः स्वर्गे समुपजायते ।तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ ४० ॥
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते ।अल्पाबाधो निरीतीकः स जातः सुखमेधते ॥ ४१ ॥
सुखभागी निरायासो निरुद्वेगः सदा नरः ।एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ ४२ ॥
उमोवाच ।इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः ।दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ॥ ४३ ॥
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् ।अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ।एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥ ४४ ॥
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा ।नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ ४५ ॥
महेश्वर उवाच ।ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा ।परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ॥ ४६ ॥
वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा ।लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ॥ ४७ ॥
स चेन्मानुषतां याति मेधावी तत्र जायते ।श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ॥ ४८ ॥
परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते ।तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥ ४९ ॥
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् ।रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥ ५० ॥
ये तु मूढा दुराचारा वियोनौ मैथुने रताः ।पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ ५१ ॥
पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः ।प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ॥ ५२ ॥
उमोवाच ।सावद्यं किं नु वै कर्म निरवद्यं तथैव च ।श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥ ५३ ॥
महेश्वर उवाच ।श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् ।धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ ५४ ॥
यदि मानुषतां देवि कदाचित्स निगच्छति ।मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ॥ ५५ ॥
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः ।नृणां हितार्थाय तव मया वै समुदाहृतः ॥ ५६ ॥
उमोवाच ।अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ।ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ ५७ ॥
व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः ।अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ ५८ ॥
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे ।केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ ५९ ॥
महेश्वर उवाच ।आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः ।प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ॥ ६० ॥
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः ।अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥ ६१ ॥
ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः ।निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ ६२ ॥
एष देवि मया सर्वः संशयच्छेदनाय ते ।कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ ६३ ॥
« »