Click on words to see what they mean.

उमोवाच ।भगवन्सर्वभूतेश सुरासुरनमस्कृत ।धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ १ ॥
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा ।बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥ २ ॥
केन शीलेन वा देव कर्मणा कीदृशेन वा ।समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ॥ ३ ॥
महेश्वर उवाच ।देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते ।सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ ४ ॥
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः ।नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ ५ ॥
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः ।वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥ ६ ॥
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन ।ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ॥ ७ ॥
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः ।तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ ८ ॥
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ॥ ९ ॥
परस्वे निर्ममा नित्यं परदारविवर्जकाः ।धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ १० ॥
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये ।परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ ११ ॥
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च ।स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ १२ ॥
स्वदारनिरता ये च ऋतुकालाभिगामिनः ।अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ १३ ॥
परदारेषु ये नित्यं चारित्रावृतलोचनाः ।यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ १४ ॥
एष देवकृतो मार्गः सेवितव्यः सदा नरैः ।अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ १५ ॥
दानधर्मतपोयुक्तः शीलशौचदयात्मकः ।वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ।स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ १६ ॥
उमोवाच ।वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः ।तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ १७ ॥
महेश्वर उवाच ।आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा ।ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ १८ ॥
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च ।अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ १९ ॥
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् ।स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २० ॥
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् ।अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २१ ॥
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् ।ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ॥ २२ ॥
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः ।सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २३ ॥
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः ।सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २४ ॥
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् ।सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ॥ २५ ॥
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥ २६ ॥
उमोवाच ।मनसा बध्यते येन कर्मणा पुरुषः सदा ।तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २७ ॥
महेश्वर उवाच ।मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥ २८ ॥
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः ।बध्यते मानवो येन शृणु चान्यच्छुभानने ॥ २९ ॥
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः ।मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ ३० ॥
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् ।नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥ ३१ ॥
तथैव परदारान्ये कामवृत्तान्रहोगतान् ।मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ ३२ ॥
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः ॥ ३३ ॥
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः ।स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥ ३४ ॥
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा ।सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ ३५ ॥
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः ।धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ ३६ ॥
शुभानामशुभानां च कर्मणां फलसंचये ।विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥ ३७ ॥
न्यायोपेता गुणोपेता देवद्विजपराः सदा ।समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ ३८ ॥
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः ।स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥
उमोवाच ।महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर ।तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥ ४० ॥
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो ।तपसा वापि देवेश केनायुर्लभते महत् ॥ ४१ ॥
क्षीणायुः केन भवति कर्मणा भुवि मानवः ।विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ ४२ ॥
अपरे च महाभोगा मन्दभोगास्तथापरे ।अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ॥ ४३ ॥
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव ।प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ ४४ ॥
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः ।महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥ ४५ ॥
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे ।दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥ ४६ ॥
महेश्वर उवाच ।हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् ।मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ॥ ४७ ॥
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा ।नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ॥ ४८ ॥
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः ।अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ॥ ४९ ॥
एवंभूतो नरो देवि निरयं प्रतिपद्यते ।विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥ ५० ॥
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ।यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥ ५१ ॥
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् ।मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥ ५२ ॥
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः ।अप्रियः सर्वभूतानां हीनायुरुपजायते ॥ ५३ ॥
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः ।निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥ ५४ ॥
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते ।सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ॥ ५५ ॥
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते ।उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥ ५६ ॥
अथ चेन्मानुषे लोके कदाचिदुपपद्यते ।तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥ ५७ ॥
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् ।प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ ५८ ॥
« »