Click on words to see what they mean.

उमोवाच ।देशेषु रमणीयेषु गिरीणां निर्झरेषु च ।स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ॥ १ ॥
देशेषु च विचित्रेषु फलवत्सु समाहिताः ।मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥ २ ॥
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर ।वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ ३ ॥
महेश्वर उवाच ।वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता ।श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ ४ ॥
संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः ।वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥ ५ ॥
त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया ।अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥ ६ ॥
नीवारग्रहणं चैव फलमूलनिषेवणम् ।इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ॥ ७ ॥
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् ।वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥ ८ ॥
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा ।मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ॥ ९ ॥
वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा ।शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ १० ॥
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः ।अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः ॥ ११ ॥
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः ।कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥ १२ ॥
वननित्यैर्वनचरैर्वनपैर्वनगोचरैः ।वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥ १३ ॥
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् ।नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् ॥ १४ ॥
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् ।पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ॥ १५ ॥
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः ।विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ १६ ॥
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा ।सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ १७ ॥
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् ।गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ॥ १८ ॥
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः ।विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः ॥ १९ ॥
उमोवाच ।भगवन्देवदेवेश सर्वभूतनमस्कृत ।यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद ॥ २० ॥
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः ।स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ २१ ॥
महेश्वर उवाच ।स्वैरिणस्तापसा देवि सर्वे दारविहारिणः ।तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ॥ २२ ॥
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् ।समाधिः सत्पथस्थानं यथोदितनिषेवणम् ॥ २३ ॥
ये च ते पूर्वकथिता धर्मा वननिवासिनाम् ।यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥ २४ ॥
ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः ।चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ॥ २५ ॥
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते ।न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ २६ ॥
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् ।हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ॥ २७ ॥
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः ।सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ २८ ॥
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् ।उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २९ ॥
आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते ।आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ ३० ॥
आर्जवो भुवने नित्यं वसत्यमरसंनिधौ ।तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ॥ ३१ ॥
क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः ।धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥ ३२ ॥
व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः ।चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥ ३३ ॥
उमोवाच ।आश्रमाभिरता देव तापसा ये तपोधनाः ।दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ ३४ ॥
राजानो राजपुत्राश्च निर्धना वा महाधनाः ।कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ॥ ३५ ॥
नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः ।केन वा कर्मणा देव भवन्ति वनगोचराः ॥ ३६ ॥
एतं मे संशयं देव तपश्चर्यागतं शुभम् ।शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥ ३७ ॥
महेश्वर उवाच ।उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः ।संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ ३८ ॥
मण्डूकयोगशयनो यथास्थानं यथाविधि ।दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ३९ ॥
शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते ।दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ४० ॥
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते ।शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥ ४१ ॥
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा ।यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ ४२ ॥
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ।चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ॥ ४३ ॥
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ।मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥ ४४ ॥
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः ।प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ ४५ ॥
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ।गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ॥ ४६ ॥
आत्मानमुपजीवन्यो नियतो नियताशनः ।देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥ ४७ ॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ॥ ४८ ॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ॥ ४९ ॥
साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः ।चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ।स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ५० ॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ ५१ ॥
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः ।आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ॥ ५२ ॥
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ।अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ॥ ५३ ॥
वीराध्वानमना नित्यं वीरासनरतस्तथा ।वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ५४ ॥
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः ।दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ।सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ ५५ ॥
वीरलोकगतो वीरो वीरयोगवहः सदा ।सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ।वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥ ५६ ॥
कामगेन विमानेन स वै चरति च्छन्दतः ।शक्रलोकगतः श्रीमान्मोदते च निरामयः ॥ ५७ ॥
« »