Click on words to see what they mean.

उमोवाच ।उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः ।सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥ १ ॥
महेश्वर उवाच ।ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना ।लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥ २ ॥
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् ।ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥ ३ ॥
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा ।पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥ ४ ॥
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः ।शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥ ५ ॥
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः ।त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥ ६ ॥
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः ।वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥ ७ ॥
यजनं याजनं चैव तथा दानप्रतिग्रहौ ।अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ॥ ८ ॥
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः ।दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥ ९ ॥
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः ।गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥ १० ॥
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः ।दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥ ११ ॥
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा ।अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥ १२ ॥
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा ।दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥ १३ ॥
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च ।सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ १४ ॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ।शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥ १५ ॥
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते ।तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥ १६ ॥
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा ।पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥ १७ ॥
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् ।कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥ १८ ॥
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता ।एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥ १९ ॥
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः ।तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥ २० ॥
सर्वभूतदया धर्मो न चैकग्रामवासिता ।आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥ २१ ॥
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने ।न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥ २२ ॥
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः ।युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥ २३ ॥
वृक्षमूलशयो नित्यं शून्यागारनिवेशनः ।नदीपुलिनशायी च नदीतीररतिश्च यः ॥ २४ ॥
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः ।आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥ २५ ॥
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा ।परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥ २६ ॥
न चैकत्र चिरासक्तो न चैकग्रामगोचरः ।युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥ २७ ॥
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् ।यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥ २८ ॥
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः ।हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥ २९ ॥
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः ।अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥ ३० ॥
उमोवाच ।गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया ।भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥ ३१ ॥
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् ।स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥ ३२ ॥
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् ।तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥ ३३ ॥
एतं मे संशयं देव मुनिधर्मकृतं विभो ।सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ।निखिलेन मया पृष्टं महादेव यथातथम् ॥ ३४ ॥
महेश्वर उवाच ।हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् ।यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥ ३५ ॥
फेनपानामृषीणां यो धर्मो धर्मविदां सदा ।तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥ ३६ ॥
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् ।अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥ ३७ ॥
एष तेषां विशुद्धानां फेनपानां तपोधने ।धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥ ३८ ॥
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले ।उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥ ३९ ॥
मृगनिर्मोकवसनाश्चीरवल्कलवाससः ।निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥ ४० ॥
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः ।तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥ ४१ ॥
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये ।द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥ ४२ ॥
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः ।सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥ ४३ ॥
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि ।संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥ ४४ ॥
सोमपानां च देवानामूष्मपाणां तथैव च ।उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥ ४५ ॥
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा ।यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥ ४६ ॥
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः ।ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥ ४७ ॥
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः ।कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥ ४८ ॥
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् ।सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥ ४९ ॥
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः ।सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥ ५० ॥
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः ।स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥ ५१ ॥
फलमूलाशनं वायुरापः शैवलभक्षणम् ।ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥ ५२ ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।अतीतपात्रसंचारे काले विगतभैक्षके ॥ ५३ ॥
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः ।सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥ ५४ ॥
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः ।मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥ ५५ ॥
« »