Click on words to see what they mean.

महेश्वर उवाच ।तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा ।तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥ १ ॥
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि ।प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥ २ ॥
यतो यतः सा सुदती मामुपाधावदन्तिके ।ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥ ३ ॥
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः ।चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥ ४ ॥
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह ।उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥ ५ ॥
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् ।दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः ॥ ६ ॥
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया ।देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ॥ ७ ॥
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम ।दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥ ८ ॥
उमोवाच ।वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते ।कथं गोवृषभो देव वाहनत्वमुपागतः ॥ ९ ॥
महेश्वर उवाच ।सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् ।सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥ १० ॥
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः ।ततो दग्धा मया गावो नानावर्णत्वमागताः ॥ ११ ॥
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना ।वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ॥ १२ ॥
उमोवाच ।निवासा बहुरूपास्ते विश्वरूपगुणान्विताः ।तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम् ॥ १३ ॥
केशास्थिकलिले भीमे कपालघटसंकुले ।गृध्रगोमायुकलिले चिताग्निशतसंकुले ॥ १४ ॥
अशुचौ मांसकलिले वसाशोणितकर्दमे ।विनिकीर्णामिषचये शिवानादविनादिते ॥ १५ ॥
महेश्वर उवाच ।मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् ।न च मेध्यतरं किंचिच्छ्मशानादिह विद्यते ॥ १६ ॥
तेन मे सर्ववासानां श्मशाने रमते मनः ।न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते ॥ १७ ॥
तत्र चैव रमन्ते मे भूतसंघाः शुभानने ।न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ॥ १८ ॥
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे ।पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥ १९ ॥
उमोवाच ।भगवन्सर्वभूतेश सर्वधर्मभृतां वर ।पिनाकपाणे वरद संशयो मे महानयम् ॥ २० ॥
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो ।तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥ २१ ॥
अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया ।एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ॥ २२ ॥
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः ।शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥ २३ ॥
नारद उवाच ।ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् ।वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ॥ २४ ॥
महेश्वर उवाच ।अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥ २५ ॥
परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम् ।अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥ २६ ॥
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः ।देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः ॥ २७ ॥
उमोवाच ।भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि ।चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥ २८ ॥
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् ।वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ॥ २९ ॥
महेश्वर उवाच ।न्यायतस्ते महाभागे संशयः समुदीरितः ।भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥ ३० ॥
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः ।स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ३१ ॥
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः ।तथोपनयनं चैव द्विजायैवोपपद्यते ॥ ३२ ॥
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः ।देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥ ३३ ॥
उमोवाच ।भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि ।चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ॥ ३४ ॥
महेश्वर उवाच ।रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् ।व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ॥ ३५ ॥
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता ।नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ॥ ३६ ॥
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः ।विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥ ३७ ॥
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् ।धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ॥ ३८ ॥
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः ।विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः ॥ ३९ ॥
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् ।इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥ ४० ॥
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु ।अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥ ४१ ॥
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते ।ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥ ४२ ॥
दंपत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् ।गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ॥ ४३ ॥
नित्योपलेपनं धर्मस्तथा नित्योपवासिता ।सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ॥ ४४ ॥
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः ।द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ॥ ४५ ॥
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः ।तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥ ४६ ॥
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः ।निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ४७ ॥
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः ।तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः ॥ ४८ ॥
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च ।अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ ४९ ॥
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा ।भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥ ५० ॥
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः ।व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ॥ ५१ ॥
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते ।गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः ।अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ॥ ५२ ॥
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा ।अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ ५३ ॥
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः ।विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥ ५४ ॥
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् ।वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥ ५५ ॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः ।शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ॥ ५६ ॥
स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः ।शुश्रूषन्नतिथिं प्राप्तं तपः संचिनुते महत् ॥ ५७ ॥
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः ।शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् ॥ ५८ ॥
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने ।एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥ ५९ ॥
« »