Click on words to see what they mean.

युधिष्ठिर उवाच ।सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर ।श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् ।कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥ २ ॥
केन वृत्तेन कल्याणि समाचारेण केन वा ।विधूय सर्वपापानि देवलोकं त्वमागता ॥ ३ ॥
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।सुता ताराधिपस्येव प्रभया दिवमागता ॥ ४ ॥
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा ।विमानस्था शुभे भासि सहस्रगुणमोजसा ॥ ५ ॥
न त्वमल्पेन तपसा दानेन नियमेन वा ।इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥ ६ ॥
इति पृष्टा सुमनया मधुरं चारुहासिनी ।शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ ७ ॥
नाहं काषायवसना नापि वल्कलधारिणी ।न च मुण्डा न जटिला भूत्वा देवत्वमागता ॥ ८ ॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च ।अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥ ९ ॥
देवतानां पितॄणां च ब्राह्मणानां च पूजने ।अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥ १० ॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् ।अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥ ११ ॥
असद्वा हसितं किंचिदहितं वापि कर्मणा ।रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥ १२ ॥
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।आसनेनोपसंयोज्य पूजयामि समाहिता ॥ १३ ॥
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति ।भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ १४ ॥
कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु ।प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥ १५ ॥
प्रवासं यदि मे भर्ता याति कार्येण केनचित् ।मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥ १६ ॥
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ १७ ॥
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा ।आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥ १८ ॥
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा ।गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ १९ ॥
इमं धर्मपथं नारी पालयन्ती समाहिता ।अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥ २० ॥
भीष्म उवाच ।एतदाख्याय सा देवी सुमनायै तपस्विनी ।पतिधर्मं महाभागा जगामादर्शनं तदा ॥ २१ ॥
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् ॥ २२ ॥
« »