Click on words to see what they mean.

युधिष्ठिर उवाच ।अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया ।श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥ १ ॥
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा ।अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥ २ ॥
जातो नः संशयो धर्मे मांसस्य परिवर्जने ।दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥ ३ ॥
हत्वा भक्षयतो वापि परेणोपहृतस्य वा ।हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥ ४ ॥
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ ।निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥ ५ ॥
कथमायुरवाप्नोति कथं भवति सत्त्ववान् ।कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ ६ ॥
भीष्म उवाच ।मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव ।तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ ७ ॥
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् ।प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ॥ ८ ॥
ऋषीणामत्र संवादो बहुशः कुरुपुंगव ।बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ ९ ॥
यो यजेताश्वमेधेन मासि मासि यतव्रतः ।वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ १० ॥
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः ।अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥ ११ ॥
न भक्षयति यो मांसं न हन्यान्न च घातयेत् ।तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥ १२ ॥
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥ १३ ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ १४ ॥
ददाति यजते चापि तपस्वी च भवत्यपि ।मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥ १५ ॥
मासि मास्यश्वमेधेन यो यजेत शतं समाः ।न खादति च यो मांसं सममेतन्मतं मम ॥ १६ ॥
सदा यजति सत्रेण सदा दानं प्रयच्छति ।सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥ १७ ॥
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत ।यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ १८ ॥
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् ।चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥ १९ ॥
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् ।दाता भवति लोके स प्राणानां नात्र संशयः ॥ २० ॥
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ।प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥ २१ ॥
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ।मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥ २२ ॥
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् ।अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥ २३ ॥
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् ।धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥ २४ ॥
अहिंसा परमो धर्मस्तथाहिंसा परं तपः ।अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ २५ ॥
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ॥ २६ ॥
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः ।क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ॥ २७ ॥
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च ।रात्रावहनि संध्यासु चत्वरेषु सभासु च ।अमांसभक्षणे राजन्भयमन्ते न गच्छति ॥ २८ ॥
यदि चेत्खादको न स्यान्न तदा घातको भवेत् ।घातकः खादकार्थाय तं घातयति वै नरः ॥ २९ ॥
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते ।खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥ ३० ॥
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते ।तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥ ३१ ॥
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः ।उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥ ३२ ॥
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च ।संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ॥ ३३ ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।उद्विग्नवासे वसति यत्रतत्राभिजायते ॥ ३४ ॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥ ३५ ॥
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया ।मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ ३६ ॥
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् ।हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥ ३७ ॥
धनेन क्रायको हन्ति खादकश्चोपभोगतः ।घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ ३८ ॥
अखादन्ननुमोदंश्च भावदोषेण मानवः ।योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ॥ ३९ ॥
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी ।भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥ ४० ॥
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः ।मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ॥ ४१ ॥
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् ।भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ ४२ ॥
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया ।अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥ ४३ ॥
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः ।महादोषकरस्तत्र खादको न तु घातकः ॥ ४४ ॥
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः ।हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ॥ ४५ ॥
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते ।तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥ ४६ ॥
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी ।संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥ ४७ ॥
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् ।पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥ ४८ ॥
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते ।यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥ ४९ ॥
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि ।वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ।अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ॥ ५० ॥
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ।विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥ ५१ ॥
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् ।स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥ ५२ ॥
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥ ५३ ॥
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा ।अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ॥ ५४ ॥
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः ।एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ ५५ ॥
प्रजानां हितकामेन त्वगस्त्येन महात्मना ।आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥ ५६ ॥
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः ।प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ ५७ ॥
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ ।अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥ ५८ ॥
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥ ५९ ॥
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप ।वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ ६० ॥
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥ ६१ ॥
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् ।अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ॥ ६२ ॥
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा ।तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥ ६३ ॥
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः ।सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ॥ ६४ ॥
नाभागेनाम्बरीषेण गयेन च महात्मना ।आयुषा चानरण्येन दिलीपरघुपूरुभिः ॥ ६५ ॥
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।नृगेण विष्वगश्वेन तथैव शशबिन्दुना ।युवनाश्वेन च तथा शिबिनौशीनरेण च ॥ ६६ ॥
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च ।रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ॥ ६७ ॥
दुःषन्तेन करूषेण रामालर्कनलैस्तथा ।विरूपाश्वेन निमिना जनकेन च धीमता ॥ ६८ ॥
सिलेन पृथुना चैव वीरसेनेन चैव ह ।इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च ॥ ६९ ॥
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् ।शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ ७० ॥
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः ।उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥ ७१ ॥
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् ।ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥ ७२ ॥
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः ।जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ।विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥ ७३ ॥
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥ ७४ ॥
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः ।बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥ ७५ ॥
एतत्ते कथितं राजन्मांसस्य परिवर्जने ।प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥ ७६ ॥
« »