Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ १ ॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह ।बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ २ ॥
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ ३ ॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ ४ ॥
भीष्म उवाच ।इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥ ५ ॥
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ ६ ॥
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः ।तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥ ७ ॥
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते ।प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥ ८ ॥
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥ ९ ॥
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ।यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥ १० ॥
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥ ११ ॥
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे ।द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥ १२ ॥
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३ ॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।मयूरहंससंयुक्तं विमानं लभते नरः ॥ १४ ॥
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह ।निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ १५ ॥
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ १६ ॥
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥ १७ ॥
सागरस्य च पर्यन्ते वासवं लोकमावसेत् ।देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ १८ ॥
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १९ ॥
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥ २० ॥
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥ २१ ॥
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥ २२ ॥
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ २३ ॥
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ २४ ॥
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥ २५ ॥
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते ।नूपुराणां निनादेन मेखलानां च निस्वनैः ॥ २६ ॥
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ २७ ॥
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च ।लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ २८ ॥
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ २९ ॥
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥ ३० ॥
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥ ३१ ॥
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ ३२ ॥
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ ३३ ॥
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।पद्मवर्णनिभं चैव विमानमधिरोहति ॥ ३४ ॥
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः ।वयोरूपविलासिन्यो लभते नात्र संशयः ॥ ३५ ॥
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ ३६ ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ ३७ ॥
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥ ३८ ॥
अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥ ३९ ॥
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ ४० ॥
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे ।अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ ४१ ॥
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥ ४२ ॥
विमानं मण्डलावर्तमावर्तगहनावृतम् ।सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥ ४३ ॥
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः ।स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।आरोहति महद्यानं हंससारसवाहनम् ॥ ४४ ॥
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ।सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ ४५ ॥
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा ।अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥ ४६ ॥
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ।स्वयंभुवं च पश्येत विमानं समुपस्थितम् ॥ ४७ ॥
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ ४८ ॥
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।कोटीशतसहस्रं च दश कोटिशतानि च ॥ ४९ ॥
रुद्रं नित्यं प्रणमते देवदानवसंमतम् ।स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥ ५० ॥
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः ।सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥ ५१ ॥
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ।मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥ ५२ ॥
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् ।मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥ ५३ ॥
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ।नित्यमावसते राजन्नरनारीसमावृतम् ।ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥ ५४ ॥
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः ।सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥ ५५ ॥
रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥ ५६ ॥
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् ।पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥ ५७ ॥
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च ।अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ ५८ ॥
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः ।सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥ ५९ ॥
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।सदा द्वादश मासान्वै महामेधफलं लभेत् ॥ ६० ॥
अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः ।मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥ ६१ ॥
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः ।काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥ ६२ ॥
देवकन्यानिवासे च तस्मिन्वसति मानवः ।जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥ ६३ ॥
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ।राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ ६४ ॥
यानमारोहते नित्यं हंसबर्हिणसेवितम् ।मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥ ६५ ॥
दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् ।एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥ ६६ ॥
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ।मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ ६७ ॥
षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः ।सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥ ६८ ॥
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा ।सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥ ६९ ॥
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ।अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥ ७० ॥
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥ ७१ ॥
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ ७२ ॥
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति ।मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥ ७३ ॥
तत्र दैवतकन्याभिरासनेनोपचर्यते ।भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥ ७४ ॥
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् ।द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः ॥ ७५ ॥
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो ।तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥ ७६ ॥
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् ।सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ ७७ ॥
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥ ७८ ॥
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ।विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥ ७९ ॥
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते ।सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ ८० ॥
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् ।सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ ८१ ॥
उत्तमं लभते स्थानमप्सरोगणसेवितम् ।गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥ ८२ ॥
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥ ८३ ॥
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् ।सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥ ८४ ॥
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ।स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥ ८५ ॥
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ।विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥ ८६ ॥
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ।सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ ८७ ॥
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ।अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥ ८८ ॥
अनभिज्ञश्च दुःखानां विमानवरमास्थितः ।सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥ ८९ ॥
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ।सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ ९० ॥
धृतिमानहिंसानिरतः सत्यवागनसूयकः ।लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ ९१ ॥
कामचारी सुधाहारो विमानवरमास्थितः ।रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ ९२ ॥
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥ ९३ ॥
वायोरुशनसश्चैव रुद्रलोकं च गच्छति ।कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥ ९४ ॥
अनेकगुणपर्यन्तं विमानवरमास्थितः ।रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ ९५ ॥
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् ।सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ ९६ ॥
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ।दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ९७ ॥
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे ।रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥ ९८ ॥
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥ ९९ ॥
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः ।रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥ १०० ॥
देवकन्यासमारूढै राजतैर्विमलैः शुभैः ।विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥ १०१ ॥
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥ १०२ ॥
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादश मासांस्तु नियतो नियताशनः ॥ १०३ ॥
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ।स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥ १०४ ॥
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते ।विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥ १०५ ॥
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते ।द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ १०६ ॥
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् ।सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥ १०७ ॥
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥ १०८ ॥
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् ।अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥ १०९ ॥
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः ।युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥ ११० ॥
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥ १११ ॥
फलं देवर्षिचरितं विपुलं समुपाश्नुते ।भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ ११२ ॥
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ ११३ ॥
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे ।सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ ११४ ॥
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् ।सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥ ११५ ॥
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ।विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥ ११६ ॥
जातरूपमयं युक्तं सर्वरत्नविभूषितम् ।अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् ॥ ११७ ॥
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ ११८ ॥
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ ११९ ॥
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥ १२० ॥
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः ।सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥ १२१ ॥
सुधारसकृताहारः श्रीमान्सर्वमनोहरः ।तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ १२२ ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।सुखेष्वभिरतो योगी दुःखानामविजानकः ॥ १२३ ॥
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ।रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥ १२४ ॥
नानाविधसुरूपाभिर्नानारागाभिरेव च ।नानामधुरभाषाभिर्नानारतिभिरेव च ॥ १२५ ॥
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे ।पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे ॥ १२६ ॥
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥ १२७ ॥
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति ।तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥ १२८ ॥
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ १२९ ॥
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ १३० ॥
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ।जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता ॥ १३१ ॥
बहुभिर्नियमैरेवं मासानश्नाति यो नरः ।अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥ १३२ ॥
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः ।स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥ १३३ ॥
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥ १३४ ॥
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ।उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ।देवद्विजातिपूजायां रतो भरतसत्तम ॥ १३५ ॥
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥ १३६ ॥
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत ।अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ १३७ ॥
« »