Click on words to see what they mean.

युधिष्ठिर उवाच ।सर्वेषामेव वर्णानां म्लेच्छानां च पितामह ।उपवासे मतिरियं कारणं च न विद्महे ॥ १ ॥
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् ।उपवासे कथं तेषां कृत्यमस्ति पितामह ॥ २ ॥
नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव ।अवाप्नोति गतिं कां च उपवासपरायणः ॥ ३ ॥
उपवासः परं पुण्यमुपवासः परायणम् ।उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ ४ ॥
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् ।स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥ ५ ॥
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप ।धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ॥ ६ ॥
वैशंपायन उवाच ।एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् ।धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ ७ ॥
इदं खलु महाराज श्रुतमासीत्पुरातनम् ।उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ॥ ८ ॥
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत ।यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥ ९ ॥
प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः ।उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥ १० ॥
अङ्गिरा उवाच ।ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन ।द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ॥ ११ ॥
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते ।त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ॥ १२ ॥
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते ।त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥ १३ ॥
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत ।क्षमावान्रूपसंपन्नः श्रुतवांश्चैव जायते ॥ १४ ॥
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ।यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ॥ १५ ॥
अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् ।उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥ १६ ॥
मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत् ।भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥ १७ ॥
सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः ।कृषिभागी बहुधनो बहुपुत्रश्च जायते ॥ १८ ॥
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् ।सुभगो दर्शनीयश्च यशोभागी च जायते ॥ १९ ॥
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् ।श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥ २० ॥
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् ।स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ २१ ॥
चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् ।सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ २२ ॥
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः ।नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ २३ ॥
ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षपेत् ।ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥ २४ ॥
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ।बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ २५ ॥
श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् ।यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥ २६ ॥
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः ।धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥ २७ ॥
तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् ।प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ २८ ॥
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् ।शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ २९ ॥
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः ।तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥ ३० ॥
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत ।गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥ ३१ ॥
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश ।गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥ ३२ ॥
एते तु नियमाः सर्वे कर्तव्याः शरदो दश ।द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ॥ ३३ ॥
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् ।अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ ३४ ॥
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३५ ॥
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते ।तप्तकाञ्चनवर्णाभं विमानमधिरोहति ॥ ३६ ॥
पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते ।तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ ३७ ॥
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः ।अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥ ३८ ॥
दशवर्षसहस्राणि स्वर्गे च स महीयते ।तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ ३९ ॥
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते ।अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ॥ ४० ॥
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते ।त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ॥ ४१ ॥
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् ।अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४२ ॥
चक्रवाकप्रयुक्तेन विमानेन स गच्छति ।चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ॥ ४३ ॥
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप ।गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४४ ॥
हंससारसयुक्तेन विमानेन स गच्छति ।पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ ४५ ॥
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु ।षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ।षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ ४६ ॥
वीणानां वल्लकीनां च वेणूनां च विशां पते ।सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ ४७ ॥
संवत्सरमिहैकं तु मासि मासि पिबेत्पयः ।फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ ४८ ॥
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति ।सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥ ४९ ॥
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते ।विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ ५० ॥
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः ।पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥ ५१ ॥
दिवं हंसप्रयुक्तेन विमानेन स गच्छति ।शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ॥ ५२ ॥
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः ।शतं वर्षसहस्राणां मोदते दिवि स प्रभो ।काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ ५३ ॥
सहस्रहंससंयुक्ते विमाने सोमवर्चसि ।स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ ५४ ॥
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् ।व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ ५५ ॥
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् ।न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥ ५६ ॥
अतः स कामसंयुक्तो विमाने हेमसंनिभे ।रमते स्त्रीशताकीर्णे पुरुषोऽलंकृतः शुभे ॥ ५७ ॥
स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः ।अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ ५८ ॥
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि ।वैडूर्यमुक्ताखचिते वीणामुरजनादिते ॥ ५९ ॥
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते ।स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥ ६० ॥
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव ।तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ ६१ ॥
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः ।न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥ ६२ ॥
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च ।उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥ ६३ ॥
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे ।ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥ ६४ ॥
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता ।क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥ ६५ ॥
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः ।सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥ ६६ ॥
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् ।यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ ६७ ॥
इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा ।पठेत यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् ॥ ६८ ॥
विमुच्यते चापि स सर्वसंकरैर्न चास्य दोषैरभिभूयते मनः ।वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ ६९ ॥
« »