Click on words to see what they mean.

युधिष्ठिर उवाच ।मित्रसौहृदभावेन उपदेशं करोति यः ।जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ १ ॥
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह ।सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ २ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् ।ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया ॥ ३ ॥
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् ।उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥ ४ ॥
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ ।दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर ।ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ ५ ॥
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् ।बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ॥ ६ ॥
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ।व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥ ७ ॥
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः ।नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः ।दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ ८ ॥
वेदाध्ययनघोषैश्च नादितं भरतर्षभ ।वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ ९ ॥
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः ।आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ १० ॥
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।वहतो विविधा दीक्षाः संप्रहृष्यत भारत ॥ ११ ॥
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ ।ततोऽब्रवीत्कुलपतिं पादौ संगृह्य भारत ॥ १२ ॥
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥ १३ ॥
वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम ।शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥ १४ ॥
कुलपतिरुवाच ।न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् ।आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ १५ ॥
भीष्म उवाच ।एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप ।कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ।विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ॥ १६ ॥
गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः ।तत्र वेदिं च भूमिं च देवतायतनानि च ।निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ॥ १७ ॥
अभिषेकांश्च नियमान्देवतायतनेषु च ।बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ १८ ॥
संकल्पनियमोपेतः फलाहारो जितेन्द्रियः ।नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥ १९ ॥
अतिथीन्पूजयामास यथावत्समुपागतान् ।एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ॥ २० ॥
अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम् ।संपूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ॥ २१ ॥
अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत ।ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ २२ ॥
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ ।सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥ २३ ॥
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ ।पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥ २४ ॥
बाढमित्येव तं विप्र उवाच भरतर्षभ ।शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥ २५ ॥
अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ ।पवित्रमासनं चैव बृसीं च समुपानयत् ॥ २६ ॥
अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् ।कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ॥ २७ ॥
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः ।स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥ २८ ॥
यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् ।हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ २९ ॥
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः ।पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ ३० ॥
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः ।वने पञ्चत्वमगमत्सुकृतेन च तेन वै ।अजायत महाराजराजवंशे महाद्युतिः ॥ ३१ ॥
तथैव स ऋषिस्तात कालधर्ममवाप्य ह ।पुरोहितकुले विप्र आजातो भरतर्षभ ॥ ३२ ॥
एवं तौ तत्र संभूतावुभौ शूद्रमुनी तदा ।क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ ३३ ॥
अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः ।कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ।सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ॥ ३४ ॥
पितर्युपरते चापि कृतशौचः स भारत ।अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ।अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ ३५ ॥
स तं पुरोधाय सुखमवसद्भरतर्षभ ।राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ ३६ ॥
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् ।उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ।एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥ ३७ ॥
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ।उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ॥ ३८ ॥
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ।कथाभिरनुकूलाभी राजानमभिरामयत् ॥ ३९ ॥
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ।वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ ४० ॥
राजोवाच ।वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम ।स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ ४१ ॥
पुरोहित उवाच ।एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव ।यद्ददासि महाराज सत्यं तद्वद मानृतम् ॥ ४२ ॥
भीष्म उवाच ।बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर ।यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ ४३ ॥
पुरोहित उवाच ।पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् ।शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥ ४४ ॥
सव्रीडं वै भवति हि मनो मे हसता त्वया ।कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥ ४५ ॥
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् ।कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ ४६ ॥
राजोवाच ।एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि ।अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ ४७ ॥
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम ।जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥ ४८ ॥
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ॥ ४९ ॥
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ।बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥ ५० ॥
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ।अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ।मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् ॥ ५१ ॥
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम ।न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ॥ ५२ ॥
विपर्ययेण मे मन्युस्तेन संतप्यते मनः ।जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ ५३ ॥
एवं तवोग्रं हि तप उपदेशेन नाशितम् ।पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥ ५४ ॥
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज ।गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ ५५ ॥
भीष्म उवाच ।ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः ।ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ ५६ ॥
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः ।तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ ५७ ॥
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः ।तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥ ५८ ॥
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम ।संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ॥ ५९ ॥
एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम ।ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ ६० ॥
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप ।उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥ ६१ ॥
एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् ।न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने ॥ ६२ ॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥ ६३ ॥
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः ।सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ ६४ ॥
तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः ।दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन ॥ ६५ ॥
धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः ।दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ॥ ६६ ॥
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् ।उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥ ६७ ॥
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता ।सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥ ६८ ॥
वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् ।स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥ ६९ ॥
एतत्ते सर्वमाख्यातमुपदेशे कृते सति ।महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् ॥ ७० ॥
« »