Click on words to see what they mean.

भीष्म उवाच ।यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः ।मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १ ॥
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः ।तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २ ॥
उतथ्य उवाच ।धर्माय राजा भवति न कामकरणाय तु ।मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३ ॥
राजा चरति वै धर्मं देवत्वायैव गच्छति ।न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४ ॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति ।तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५ ॥
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते ।देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६ ॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७ ॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८ ॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः ।न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९ ॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम् ।मनुष्याणां महाराज यदा पापो न वार्यते ॥ १० ॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११ ॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥ १२ ॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् ।वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३ ॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४ ॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः ।अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥ १५ ॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा ।तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ १६ ॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः ।स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥ १७ ॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ १८ ॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ।ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९ ॥
तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् ।मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ॥ २० ॥
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः ।अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१ ॥
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् ।अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ॥ २२ ॥
एतत्फलमसूयाया अभिमानस्य चाभिभो ।तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३ ॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४ ॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव ।राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५ ॥
स यथा दर्पसहितमधर्मं नानुसेवसे ।तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६ ॥
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः ।तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७ ॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८ ॥
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत् ।अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ॥ २९ ॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३० ॥
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् ।अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१ ॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२ ॥
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् ।अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः ॥ ३३ ॥
अशीते विद्यते शीतं शीते शीतं न विद्यते ।अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४ ॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे ।उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५ ॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६ ॥
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे ।कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥ ३७ ॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते ।त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८ ॥
« »