Click on words to see what they mean.

युधिष्ठिर उवाच ।मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि ।धारयित्वापि ते श्रुत्वा रोचतां वचनं मम ॥ १ ॥
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः ।गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥ २ ॥
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् ।अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥ ३ ॥
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः ।अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥ ४ ॥
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् ।कृशः परिमिताहारश्चर्मचीरजटाधरः ॥ ५ ॥
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः ।तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥ ६ ॥
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः ।मुदितानामरण्येषु वसतां मृगपक्षिणाम् ॥ ७ ॥
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ।नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥ ८ ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः ।नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥ ९ ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ १० ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥ ११ ॥
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥ १२ ॥
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः ।वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३ ॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ॥ १४ ॥
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः ।अकुर्वाणः परैः कांचित्संविदं जातु केनचित् ॥ १५ ॥
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् ।प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥ १६ ॥
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ।प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥ १७ ॥
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् ।न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः ॥ १८ ॥
गमने निरपेक्षश्च पश्चादनवलोकयन् ।ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ॥ १९ ॥
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि ।द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥ २० ॥
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् ।अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥ २१ ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।अतीतपात्रसंचारे काले विगतभिक्षुके ॥ २२ ॥
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च ।स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ॥ २३ ॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ॥ २४ ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ २५ ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥ २६ ॥
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः ।सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः ॥ २७ ॥
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः ।न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ २८ ॥
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् ।तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥ २९ ॥
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः ।कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ॥ ३० ॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् ।प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥ ३१ ॥
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् ।समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥ ३२ ॥
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् ।असारमिममस्वन्तं संसारं त्यजतः सुखम् ॥ ३३ ॥
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु ।को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥ ३४ ॥
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् ।पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥ ३५ ॥
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् ।तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥ ३६ ॥
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ ३७ ॥
« »