Click on words to see what they mean.

युधिष्ठिर उवाच ।यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।पुरुषेणासहायेन किमु राज्यं पितामह ॥ १ ॥
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् ।कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ॥ २ ॥
भीष्म उवाच ।चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत ।सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ॥ ३ ॥
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः ।यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥ ४ ॥
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् ।धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ॥ ५ ॥
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ ।सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥ ६ ॥
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे ।प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥ ७ ॥
असाधुः साधुतामेति साधुर्भवति दारुणः ।अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥ ८ ॥
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् ।तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥ ९ ॥
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः ।अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ॥ १० ॥
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते ।यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥ ११ ॥
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् ।एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ॥ १२ ॥
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् ।नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥ १३ ॥
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति ।न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥ १४ ॥
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति ।यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ॥ १५ ॥
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् ।एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥ १६ ॥
यं मन्येत ममाभावादस्याभावो भवेदिति ।तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥ १७ ॥
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् ।नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥ १८ ॥
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् ।ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १९ ॥
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते ।यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥ २० ॥
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः ।कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः ॥ २१ ॥
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् ।यो मानितोऽमानितो वा न संदूष्येत्कदाचन ॥ २२ ॥
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः ।गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ॥ २३ ॥
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः ।विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥ २४ ॥
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् ।एकार्थादेव भूतानां भेदो भवति सर्वदा ॥ २५ ॥
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः ।समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ॥ २६ ॥
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् ।दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥ २७ ॥
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः ।कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः ॥ २८ ॥
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः ।पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥ २९ ॥
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु ।युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ॥ ३० ॥
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा ।अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ॥ ३१ ॥
ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा ।उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥ ३२ ॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥ ३३ ॥
अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् ।अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ॥ ३४ ॥
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् ।नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ॥ ३५ ॥
आत्मानमेव जानाति निकृतं बान्धवैरपि ।तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ॥ ३६ ॥
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति ।उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ॥ ३७ ॥
तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा ।कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिदाचरेत् ॥ ३८ ॥
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा ।न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ॥ ३९ ॥
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः ।अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि ॥ ४० ॥
य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले ।मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ॥ ४१ ॥
« »