Click on words to see what they mean.

युधिष्ठिर उवाच ।व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत ।कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ॥ १ ॥
भीष्म उवाच ।अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् ।कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये ॥ २ ॥
युधिष्ठिर उवाच ।कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते ।ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ॥ ३ ॥
भीष्म उवाच ।सुरा लवणमित्येव तिलान्केसरिणः पशून् ।ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ॥ ४ ॥
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् ।एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् ॥ ५ ॥
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् ।धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन ॥ ६ ॥
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः ।निमयेत्पक्वमामेन भोजनार्थाय भारत ॥ ७ ॥
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् ।एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन ॥ ८ ॥
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः ।व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ॥ ९ ॥
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु ।रुचिते वर्तते धर्मो न बलात्संप्रवर्तते ॥ १० ॥
इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः ।ऋषीणामितरेषां च साधु चेदमसंशयम् ॥ ११ ॥
युधिष्ठिर उवाच ।अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः ।व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ॥ १२ ॥
राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् ।एतन्मे संशयं ब्रूहि विस्तरेण पितामह ॥ १३ ॥
भीष्म उवाच ।दानेन तपसा यज्ञैरद्रोहेण दमेन च ।ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ॥ १४ ॥
तेषां ये वेदबलिनस्त उत्थाय समन्ततः ।राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ॥ १५ ॥
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् ।तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता ॥ १६ ॥
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् ।तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु ॥ १७ ॥
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते ।सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ॥ १८ ॥
युधिष्ठिर उवाच ।अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति ।कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् ॥ १९ ॥
भीष्म उवाच ।तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च ।अमायया मायया च नियन्तव्यं तदा भवेत् ॥ २० ॥
क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः ।ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ २१ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ २२ ॥
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते ।क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ॥ २३ ॥
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर ।समुदीर्णान्यजेयानि तेजांसि च बलानि च ॥ २४ ॥
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले ।दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः ॥ २५ ॥
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः ।ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ॥ २६ ॥
मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते ।ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ॥ २७ ॥
अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् ।अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् ।एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः ॥ २८ ॥
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति ।ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता ।ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् ॥ २९ ॥
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत ।दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ॥ ३० ॥
भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि ।कारणाद्देशकालस्य देशकालः स तादृशः ॥ ३१ ॥
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् ।धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् ॥ ३२ ॥
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति ।आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च ॥ ३३ ॥
युधिष्ठिर उवाच ।अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे ।संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली ॥ ३४ ॥
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम ।दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् ॥ ३५ ॥
कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा ।न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः ॥ ३६ ॥
भीष्म उवाच ।अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् ।शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति ॥ ३७ ॥
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् ।अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः ॥ ३८ ॥
तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् ।महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति ॥ ३९ ॥
किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया ।वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता ॥ ४० ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् ॥ ४१ ॥
एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता ।न वर्षति च यो मेघः सर्व एते निरर्थकाः ॥ ४२ ॥
नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् ।स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ॥ ४३ ॥
« »