Click on words to see what they mean.

भीष्म उवाच ।ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।शुश्रूषणं चापि तथार्थहेतोरकार्यमेतत्परमं द्विजस्य ॥ १ ॥
सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा ।कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥ २ ॥
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया ।कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ॥ ३ ॥
शूद्रो राजन्भवति ब्रह्मबन्धुर्दुश्चारित्र्यो यश्च धर्मादपेतः ।वृषलीपतिः पिशुनो नर्तकश्च ग्रामप्रैष्यो यश्च भवेद्विकर्मा ॥ ४ ॥
जपन्वेदानजपंश्चापि राजन्समः शूद्रैर्दासवच्चापि भोज्यः ।एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये ॥ ५ ॥
निर्मर्यादे चाशने क्रूरवृत्तौ हिंसात्मके त्यक्तधर्मस्ववृत्ते ।हव्यं कव्यं यानि चान्यानि राजन्देयान्यदेयानि भवन्ति तस्मिन् ॥ ६ ॥
तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचं चार्जवं चापि राजन् ।तथा विप्रस्याश्रमाः सर्व एव पुरा राजन्ब्रह्मणा वै निसृष्टाः ॥ ७ ॥
यः स्याद्दान्तः सोमप आर्यशीलः सानुक्रोशः सर्वसहो निराशीः ।ऋजुर्मृदुरनृशंसः क्षमावान्स वै विप्रो नेतरः पापकर्मा ॥ ८ ॥
शूद्रं वैश्यं राजपुत्रं च राजँल्लोकाः सर्वे संश्रिता धर्मकामाः ।तस्माद्वर्णाञ्जातिधर्मेषु सक्तान्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ॥ ९ ॥
लोके चेदं सर्वलोकस्य न स्याच्चातुर्वर्ण्यं वेदवादाश्च न स्युः ।सर्वाश्चेज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमस्था न वै स्युः ॥ १० ॥
यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् ।कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ॥ ११ ॥
शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः ।अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ १२ ॥
अल्पान्तरगतस्यापि दशधर्मगतस्य वा ।आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ॥ १३ ॥
भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः ।तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥ १४ ॥
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः ।वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ॥ १५ ॥
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ ।संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥ १६ ॥
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर ।राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥ १७ ॥
समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः ।संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु ॥ १८ ॥
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव ।अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥ १९ ॥
अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि ।देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ॥ २० ॥
अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम् ।आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥ २१ ॥
राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया ।अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ॥ २२ ॥
न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ ।चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥ २३ ॥
बह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः ।सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि ॥ २४ ॥
यथा राजन्हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि ।एवं धर्मान्राजधर्मेषु सर्वान्सर्वावस्थं संप्रलीनान्निबोध ॥ २५ ॥
अल्पाश्रयानल्पफलान्वदन्ति धर्मानन्यान्धर्मविदो मनुष्याः ।महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥ २६ ॥
सर्वे धर्मा राजधर्मप्रधानाः सर्वे धर्माः पाल्यमाना भवन्ति ।सर्वत्यागो राजधर्मेषु राजंस्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ॥ २७ ॥
मज्जेत्त्रयी दण्डनीतौ हतायां सर्वे धर्मा न भवेयुर्विरुद्धाः ।सर्वे धर्माश्चाश्रमाणां गताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे ॥ २८ ॥
सर्वे त्यागा राजधर्मेषु दृष्टाः सर्वा दीक्षा राजधर्मेषु चोक्ताः ।सर्वे योगा राजधर्मेषु चोक्ताः सर्वे लोका राजधर्मान्प्रविष्टाः ॥ २९ ॥
यथा जीवाः प्रकृतौ वध्यमाना धर्माश्रितानामुपपीडनाय ।एवं धर्मा राजधर्मैर्वियुक्ताः सर्वावस्थं नाद्रियन्ते स्वधर्मम् ॥ ३० ॥
« »