Click on words to see what they mean.

युधिष्ठिर उवाच ।शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान् ।ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ॥ १ ॥
भीष्म उवाच ।ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो ।वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ॥ २ ॥
उक्तानि कर्माणि बहूनि राजन्स्वर्ग्याणि राजन्यपरायणानि ।नेमानि दृष्टान्तविधौ स्मृतानि क्षात्रे हि सर्वं विहितं यथावत् ॥ ३ ॥
क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन् ।अस्मिँल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥ ४ ॥
या संज्ञा विहिता लोके दासे शुनि वृके पशौ ।विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव ॥ ५ ॥
षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि ।सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः ॥ ६ ॥
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च ।निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः ॥ ७ ॥
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च ।तादृशं तादृशेनैव स गुणं प्रतिपद्यते ॥ ८ ॥
वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च ।वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ॥ ९ ॥
कालसंचोदितः कालः कालपर्यायनिश्चितः ।उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ॥ १० ॥
अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च ।स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः ॥ ११ ॥
« »