Click on words to see what they mean.

भीष्म उवाच ।आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ॥ १ ॥
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् ।ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ॥ २ ॥
जटाकरणसंस्कारं द्विजातित्वमवाप्य च ।आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ॥ ३ ॥
सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः ।वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥ ४ ॥
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ॥ ५ ॥
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥ ६ ॥
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते ।भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ॥ ७ ॥
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ ८ ॥
निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् ।विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥ ९ ॥
अधीत्य वेदान्कृतसर्वकृत्यः संतानमुत्पाद्य सुखानि भुक्त्वा ।समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ॥ १० ॥
स्वदारतुष्ट ऋतुकालगामी नियोगसेवी नशठो नजिह्मः ।मिताशनो देवपरः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् ॥ ११ ॥
दान्तो विधेयो हव्यकव्येऽप्रमत्तो अन्नस्य दाता सततं द्विजेभ्यः ।अमत्सरी सर्वलिङ्गिप्रदाता वैताननित्यश्च गृहाश्रमी स्यात् ॥ १२ ॥
अथात्र नारायणगीतमाहुर्महर्षयस्तात महानुभावाः ।महार्थमत्यर्थतपःप्रयुक्तं तदुच्यमानं हि मया निबोध ॥ १३ ॥
सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिश्च दारे ।निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् ॥ १४ ॥
भरणं पुत्रदाराणां वेदानां पारणं तथा ।सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥ १५ ॥
एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् ।गृहस्थवृत्तिं प्रविशोध्य सम्यक्स्वर्गे विशुद्धं फलमाप्नुते सः ॥ १६ ॥
तस्य देहपरित्यागादिष्टाः कामाक्षया मताः ।आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ॥ १७ ॥
खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर ।एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् ॥ १८ ॥
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी ।अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ॥ १९ ॥
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च ।षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ॥ २० ॥
न चरत्यधिकारेण सेवितं द्विषतो न च ।एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥ २१ ॥
« »