Click on words to see what they mean.

भीष्म उवाच ।नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर ।प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः ॥ १ ॥
भगवानुशना चाह श्लोकमत्र विशां पते ।तमिहैकमना राजन्गदतस्त्वं निबोध मे ॥ २ ॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ३ ॥
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि ।संधेयानपि संधत्स्व विरोध्यांश्च विरोधय ॥ ४ ॥
सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत् ।गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥ ५ ॥
मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः ।राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥ ६ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ ७ ॥
बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता ।असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥ ८ ॥
असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप ।न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥ ९ ॥
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः ।मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः ॥ १० ॥
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः ।सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥ ११ ॥
न हिंस्यात्परवित्तानि देयं काले च दापयेत् ।विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥ १२ ॥
गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः ।धर्मे चार्थे च कामे च मोक्षे च सततं रतः ॥ १३ ॥
त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति ।वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् ॥ १४ ॥
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता ।धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः ॥ १५ ॥
न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् ।षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् ॥ १६ ॥
द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते ।त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः ॥ १७ ॥
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः ।वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥ १८ ॥
अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः ।नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥ १९ ॥
उपासिता च वृद्धानां जिततन्द्रीरलोलुपः ।सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः ॥ २० ॥
न चाददीत वित्तानि सतां हस्तात्कदाचन ।असद्भ्यस्तु समादद्यात्सद्भ्यः संप्रतिपादयेत् ॥ २१ ॥
स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः ।काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥ २२ ॥
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः ।शिष्टाञ्शिष्टाभिसंबन्धान्मानिनो नावमानिनः ॥ २३ ॥
विद्याविदो लोकविदः परलोकान्ववेक्षकान् ।धर्मेषु निरतान्साधूनचलानचलानिव ॥ २४ ॥
सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः ।तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः ॥ २५ ॥
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा ।एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति ॥ २६ ॥
सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् ।स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते ॥ २७ ॥
शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः ।न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते ॥ २८ ॥
अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः ।राजा भवति भूतानां विश्वास्यो हिमवानिव ॥ २९ ॥
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः ।सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥ ३० ॥
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः ।अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ॥ ३१ ॥
आरब्धान्येव कार्याणि न पर्यवसितानि च ।यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥ ३२ ॥
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः ।निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥ ३३ ॥
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः ।नयापनयवेत्तारः स राजा राजसत्तमः ॥ ३४ ॥
स्वकर्मनिरता यस्य जना विषयवासिनः ।असंघातरता दान्ताः पाल्यमाना यथाविधि ॥ ३५ ॥
वश्या नेया विनीताश्च न च संघर्षशीलिनः ।विषये दानरुचयो नरा यस्य स पार्थिवः ॥ ३६ ॥
न यस्य कूटकपटं न माया न च मत्सरः ।विषये भूमिपालस्य तस्य धर्मः सनातनः ॥ ३७ ॥
यः सत्करोति ज्ञानानि नेयः पौरहिते रतः ।सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति ॥ ३८ ॥
यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते ।न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति ॥ ३९ ॥
श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना ।आख्याते रामचरिते नृपतिं प्रति भारत ॥ ४० ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ॥ ४१ ॥
तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः ।ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् ॥ ४२ ॥
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ ।राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥ ४३ ॥
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ४४ ॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ४५ ॥
« »