Click on words to see what they mean.

वैशंपायन उवाच ।प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् ।अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥
राज्यं वै परमो धर्म इति धर्मविदो विदुः ।महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ॥ २ ॥
राजधर्मान्विशेषेण कथयस्व पितामह ।सर्वस्य जीवलोकस्य राजधर्माः परायणम् ॥ ३ ॥
त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव ।मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥ ४ ॥
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा ।नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥ ५ ॥
अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते ।लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् ॥ ६ ॥
उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः ।राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् ॥ ७ ॥
तदग्रे राजधर्माणामर्थतत्त्वं पितामह ।प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः ॥ ८ ॥
आगमश्च परस्त्वत्तः सर्वेषां नः परंतप ।भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥ ९ ॥
भीष्म उवाच ।नमो धर्माय महते नमः कृष्णाय वेधसे ।ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ १० ॥
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर ।निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि ॥ ११ ॥
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया ।देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥ १२ ॥
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह ।आनृण्यं याति धर्मस्य लोकेन च स मान्यते ॥ १३ ॥
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर ।न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये ॥ १४ ॥
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च ।पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ॥ १५ ॥
विपन्ने च समारम्भे संतापं मा स्म वै कृथाः ।घटते विनयस्तात राज्ञामेष नयः परः ॥ १६ ॥
न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारणम् ।सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥ १७ ॥
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् ।तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् ॥ १८ ॥
गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः ।सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥ १९ ॥
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन ।पुनर्नयविचारेण त्रयीसंवरणेन च ॥ २० ॥
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः ।तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर ॥ २१ ॥
अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर ।भूतमेतत्परं लोके ब्राह्मणा नाम भारत ॥ २२ ॥
मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना ।धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥ २३ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ २४ ॥
अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते ।ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥ २५ ॥
एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः ।भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥ २६ ॥
एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः ।निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः ॥ २७ ॥
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा ।तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप ॥ २८ ॥
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे ।निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः ॥ २९ ॥
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् ।न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति ॥ ३० ॥
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः ।स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् ॥ ३१ ॥
अभिशस्तमपि ह्येषां कृपायीत विशां पते ।ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥ ३२ ॥
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् ।विधीयते न शारीरं भयमेषां कदाचन ॥ ३३ ॥
दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम ।न कोशः परमो ह्यन्यो राज्ञां पुरुषसंचयात् ॥ ३४ ॥
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः ।सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् ॥ ३५ ॥
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता ।धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥ ३६ ॥
न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम ।अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः ॥ ३७ ॥
बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा ।अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु ॥ ३८ ॥
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः ।हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥ ३९ ॥
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः ।वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥ ४० ॥
प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः ।परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा ॥ ४१ ॥
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण ।न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् ॥ ४२ ॥
नित्यं हि व्यसनी लोके परिभूतो भवत्युत ।उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः ॥ ४३ ॥
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा ।कारणं च महाराज शृणु येनेदमिष्यते ॥ ४४ ॥
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् ।गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् ॥ ४५ ॥
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना ।स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् ॥ ४६ ॥
न संत्याज्यं च ते धैर्यं कदाचिदपि पाण्डव ।धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥ ४७ ॥
परिहासश्च भृत्यैस्ते न नित्यं वदतां वर ।कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥ ४८ ॥
अवमन्यन्ति भर्तारं संहर्षादुपजीविनः ।स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः ॥ ४९ ॥
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते ।अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च ॥ ५० ॥
क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च ।उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च ॥ ५१ ॥
जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः ।स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥ ५२ ॥
वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ ।निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः ॥ ५३ ॥
हयं वा दन्तिनं वापि रथं नृपतिसंमतम् ।अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ ॥ ५४ ॥
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् ।इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः ॥ ५५ ॥
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः ।संघर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् ॥ ५६ ॥
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् ।लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ।अलंकरणभोज्यं च तथा स्नानानुलेपनम् ॥ ५७ ॥
हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते ।निन्दन्ति स्वानधीकारान्संत्यजन्ति च भारत ॥ ५८ ॥
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च ।क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ।अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत ॥ ५९ ॥
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत ।नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ ६० ॥
« »