Click on words to see what they mean.

वैशंपायन उवाच ।ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः ।काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ॥ १ ॥
तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते ।सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ॥ २ ॥
मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ ।निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ॥ ३ ॥
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते ।पृथापि सहदेवेन सहास्ते नकुलेन च ॥ ४ ॥
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः ।निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥ ५ ॥
युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी ।धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् ॥ ६ ॥
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् ।स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥ ७ ॥
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् ।ददृशुर्धर्मराजानमादाय बहु मङ्गलम् ॥ ८ ॥
पृथिवीं च सुवर्णं च रत्नानि विविधानि च ।आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् ॥ ९ ॥
काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः ।पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः ॥ १० ॥
शमीपलाशपुंनागाः समिधो मधुसर्पिषी ।स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः ॥ ११ ॥
दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः ।प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह ॥ १२ ॥
व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने ।दृढपादप्रतिष्ठाने हुताशनसमत्विषि ॥ १३ ॥
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् ।जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ॥ १४ ॥
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् ।धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥ १५ ॥
ततोऽनुवादयामासुः पणवानकदुन्दुभीः ।धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ॥ १६ ॥
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ।ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् ।वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान् ॥ १७ ॥
ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च ।हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥ १८ ॥
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव ।दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ॥ १९ ॥
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ।त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ २० ॥
मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः ।क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव ॥ २१ ॥
ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः ।प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ॥ २२ ॥
« »