Click on words to see what they mean.

वैशंपायन उवाच ।प्रवेशने तु पार्थानां जनस्य पुरवासिनः ।दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ ॥ १ ॥
स राजमार्गः शुशुभे समलंकृतचत्वरः ।यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥ २ ॥
गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च ।प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ॥ ३ ॥
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् ।भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥ ४ ॥
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् ।उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ॥ ५ ॥
तव कर्माण्यमोघानि व्रतचर्या च भामिनि ।इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥ ६ ॥
प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत ।प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥ ७ ॥
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः ।अलंकृतं शोभमानमुपायाद्राजवेश्म ह ॥ ८ ॥
ततः प्रकृतयः सर्वाः पौरजानपदास्तथा ।ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ॥ ९ ॥
दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन ।दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥ १० ॥
भव नस्त्वं महाराज राजेह शरदां शतम् ।प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप ॥ ११ ॥
एवं राजकुलद्वारि मङ्गलैरभिपूजितः ।आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥ १२ ॥
प्रविश्य भवनं राजा देवराजगृहोपमम् ।श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥ १३ ॥
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च ।पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ॥ १४ ॥
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः ।ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ॥ १५ ॥
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः ।शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥ १६ ॥
तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान् ।धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ॥ १७ ॥
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा ।गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥ १८ ॥
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत ।सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ॥ १९ ॥
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती ।शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥ २० ॥
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः ।जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥ २१ ॥
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ॥ २२ ॥
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः ।सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥ २३ ॥
वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः ।परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥ २४ ॥
स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् ।अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ॥ २५ ॥
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि ।धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥ २६ ॥
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् ।घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥ २७ ॥
इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः ।विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥ २८ ॥
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः ।व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ॥ २९ ॥
युधिष्ठिर उवाच ।प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः ।प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ॥ ३० ॥
वैशंपायन उवाच ।ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते ।ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ॥ ३१ ॥
जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा ।ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥ ३२ ॥
ब्राह्मणा ऊचुः ।एष दुर्योधनसखा चार्वाको नाम राक्षसः ।परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥ ३३ ॥
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् ।उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥ ३४ ॥
वैशंपायन उवाच ।ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः ।निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥ ३५ ॥
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् ।महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥ ३६ ॥
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् ।राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥ ३७ ॥
वासुदेव उवाच ।ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम ।एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ॥ ३८ ॥
पुरा कृतयुगे तात चार्वाको नाम राक्षसः ।तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् ॥ ३९ ॥
छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः ।अभयं सर्वभूतेभ्यो वरयामास भारत ॥ ४० ॥
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् ।अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ॥ ४१ ॥
स तु लब्धवरः पापो देवानमितविक्रमः ।राक्षसस्तापयामास तीव्रकर्मा महाबलः ॥ ४२ ॥
ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् ।वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ॥ ४३ ॥
तानुवाचाव्ययो देवो विहितं तत्र वै मया ।यथास्य भविता मृत्युरचिरेणैव भारत ॥ ४४ ॥
राजा दुर्योधनो नाम सखास्य भविता नृप ।तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ॥ ४५ ॥
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः ।धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ॥ ४६ ॥
स एष निहतः शेते ब्रह्मदण्डेन राक्षसः ।चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ॥ ४७ ॥
हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव ।स्वर्गताश्च महात्मानो वीराः क्षत्रियपुंगवाः ॥ ४८ ॥
स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत ।शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय ॥ ४९ ॥
« »