Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रोतुमिच्छामि भगवन्विस्तरेण महामुने ।राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ १ ॥
आपत्सु च यथा नीतिर्विधातव्या महीक्षिता ।धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥ २ ॥
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता ।कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥ ३ ॥
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥ ४ ॥
वैशंपायन उवाच ।तमुवाच महातेजा व्यासो वेदविदां वरः ।नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥ ५ ॥
श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर ।प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥ ६ ॥
स ते सर्वरहस्येषु संशयान्मनसि स्थितान् ।छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥ ७ ॥
जनयामास यं देवी दिव्या त्रिपथगा नदी ।साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ॥ ८ ॥
बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः ।तोषयित्वोपचारेण राजनीतिमधीतवान् ॥ ९ ॥
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥ १० ॥
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् ॥ ११ ॥
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥ १२ ॥
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ॥ १३ ॥
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ॥ १४ ॥
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः ।यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते ॥ १५ ॥
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥ १६ ॥
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः ।उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥ १७ ॥
वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् ।आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥ १८ ॥
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् ।उपसंप्रष्टुमर्हामि तमहं केन हेतुना ॥ १९ ॥
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः ॥ २० ॥
नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि ।यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥ २१ ॥
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।पर्जन्यमिव घर्मार्ता आशंसाना उपासते ॥ २२ ॥
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥ २३ ॥
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥ २४ ॥
सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप ।कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥ २५ ॥
एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः ।हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ॥ २६ ॥
सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् ।द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥ २७ ॥
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः ।व्यजहान्मानसं दुःखं संतापं च महामनाः ॥ २८ ॥
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः ।व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ॥ २९ ॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥ ३० ॥
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥ ३१ ॥
ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् ।युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ॥ ३२ ॥
मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः ।आरुरोह यथा देवः सोमोऽमृतमयं रथम् ॥ ३३ ॥
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥ ३४ ॥
ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि ।शुशुभे तारकाराजसितमभ्रमिवाम्बरे ॥ ३५ ॥
चामरव्यजने चास्य वीरौ जगृहतुस्तदा ।चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते ॥ ३६ ॥
ते पञ्च रथमास्थाय भ्रातरः समलंकृताः ।भूतानीव समस्तानि राजन्ददृशिरे तदा ॥ ३७ ॥
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः ।अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥ ३८ ॥
रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् ।सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥ ३९ ॥
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥ ४० ॥
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी ।यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥ ४१ ॥
ततो रथाश्च बहुला नागाश्च समलंकृताः ।पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥ ४२ ॥
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥ ४३ ॥
तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि ।आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् ॥ ४४ ॥
अभियाने तु पार्थस्य नरैर्नगरवासिभिः ।नगरं राजमार्गश्च यथावत्समलंकृतम् ॥ ४५ ॥
पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः ।संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ॥ ४६ ॥
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः ।माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥ ४७ ॥
कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः ।कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ॥ ४८ ॥
तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः ।स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ ४९ ॥
« »