Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तो भगवता धर्मराजो युधिष्ठिरः ।चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ॥ १ ॥
किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते ।किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥ २ ॥
व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥ ३ ॥
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् ।धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥ ४ ॥
कथमन्नं कथं दानं कथमध्ययनं तपः ।कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ॥ ५ ॥
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् ।शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥ ६ ॥
अदत्तस्यानुपादानं दानमध्ययनं तपः ।अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ॥ ७ ॥
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः ।आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ॥ ८ ॥
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् ।अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥ ९ ॥
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् ।अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ॥ १० ॥
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ।दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ॥ ११ ॥
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ।ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा ।अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥ १२ ॥
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः ।शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ।तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥ १३ ॥
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः ।वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ॥ १४ ॥
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः ।यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥ १५ ॥
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः ।श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥ १६ ॥
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः ।चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥ १७ ॥
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः ।कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ॥ १८ ॥
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः ।येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥ १९ ॥
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि ।मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ॥ २० ॥
प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम् ।अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ॥ २१ ॥
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ।चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥ २२ ॥
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये ।परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ॥ २३ ॥
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् ।सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ॥ २४ ॥
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा ।सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ॥ २५ ॥
पायसं कृसरं मांसमपूपाश्च वृथा कृताः ।अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥ २६ ॥
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः ।पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ २७ ॥
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् ।एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ॥ २८ ॥
न दद्याद्यशसे दानं न भयान्नोपकारिणे ।न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥ २९ ॥
न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके ।न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥ ३० ॥
न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः ।अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि ॥ ३१ ॥
असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः ।उभयोः स्यादनर्थाय दातुरादातुरेव च ॥ ३२ ॥
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् ।मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ॥ ३३ ॥
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते ।तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥ ३४ ॥
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः ।आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ ३५ ॥
निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः ।अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ॥ ३६ ॥
न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे ।आप्ताचरितमित्येव धर्म इत्येव वा पुनः ॥ ३७ ॥
निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते ।भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ॥ ३८ ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ३९ ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥ ४० ॥
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः ।यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥ ४१ ॥
देवतानां पितॄणां च हव्यकव्यविनाशनः ।शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥ ४२ ॥
एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर ।समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ॥ ४३ ॥
« »