Click on words to see what they mean.

व्यास उवाच ।तपसा कर्मभिश्चैव प्रदानेन च भारत ।पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥ १ ॥
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् ।कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥ २ ॥
अनसूयुरधःशायी कर्म लोके प्रकाशयन् ।पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥ ३ ॥
षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः ।मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥ ४ ॥
संवत्सरेण मासाशी पूयते नात्र संशयः ।तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ॥ ५ ॥
क्रतुना चाश्वमेधेन पूयते नात्र संशयः ।ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ॥ ६ ॥
ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः ।ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥ ७ ॥
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् ।ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥ ८ ॥
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् ।दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥ ९ ॥
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये ।साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ॥ १० ॥
शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति ।नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥ ११ ॥
मनोरथं तु यो दद्यादेकस्मा अपि भारत ।न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥ १२ ॥
सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः ।स पावयत्यथात्मानमिह लोके परत्र च ॥ १३ ॥
मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् ।महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥ १४ ॥
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः ॥ १५ ॥
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः ।पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः ॥ १६ ॥
गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् ।पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः ॥ १७ ॥
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् ।कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः ॥ १८ ॥
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु ।गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥ १९ ॥
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ।उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥ २० ॥
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् ॥ २१ ॥
परदारापहारी च परस्यापहरन्वसु ।संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥ २२ ॥
स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु ।विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् ॥ २३ ॥
कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् ।परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ॥ २४ ॥
निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन् ।न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥ २५ ॥
भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते ।स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः ॥ २६ ॥
स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता ।रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥ २७ ॥
चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते ।पादावकृष्टो राजन्ये तथा धर्मो विधीयते ॥ २८ ॥
तथा वैश्ये च शूद्रे च पादः पादो विधीयते ।विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ॥ २९ ॥
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् ।त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः ॥ ३० ॥
अगम्यागमने राजन्प्रायश्चित्तं विधीयते ।आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना ॥ ३१ ॥
एष एव तु सर्वेषामकार्याणां विधिर्भवेत् ।ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥ ३२ ॥
सावित्रीमप्यधीयानः शुचौ देशे मिताशनः ।अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः ॥ ३३ ॥
अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् ।त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् ॥ ३४ ॥
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः ।पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥ ३५ ॥
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः ।अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् ॥ ३६ ॥
तस्माद्दानेन तपसा कर्मणा च शुभं फलम् ।वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥ ३७ ॥
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् ।दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥ ३८ ॥
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् ।महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥ ३९ ॥
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च ।अज्ञानज्ञानयो राजन्विहितान्यनुजानते ॥ ४० ॥
जानता तु कृतं पापं गुरु सर्वं भवत्युत ।अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥ ४१ ॥
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् ।आस्तिके श्रद्दधाने तु विधिरेष विधीयते ॥ ४२ ॥
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन ।दम्भदोषप्रधानेषु विधिरेष न दृश्यते ॥ ४३ ॥
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर ।सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ॥ ४४ ॥
स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना ।त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ॥ ४५ ॥
अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि ।मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ॥ ४६ ॥
« »