Click on words to see what they mean.

भीष्म उवाच ।अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः ।दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः ॥ १ ॥
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः ।उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥ २ ॥
अपि त्वमसि कल्याणि देवतातिथिपूजने ।पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् ॥ ३ ॥
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता ।मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना ॥ ४ ॥
नागभार्योवाच ।शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् ।भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् ॥ ५ ॥
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते ।वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥ ६ ॥
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् ।गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥ ७ ॥
नियताहारता नित्यं व्रतचर्या यथाक्रमम् ।धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषणम् ॥ ८ ॥
अहं कस्य कुतो वाहं कः को मे ह भवेदिति ।प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ॥ ९ ॥
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते ।तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥ १० ॥
साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते ।सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि ॥ ११ ॥
देवतानां महाभाग धर्मचर्या न हीयते ।अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता ॥ १२ ॥
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै ।स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥ १३ ॥
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः ।आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥ १४ ॥
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता ।प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः ॥ १५ ॥
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि ।दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ १६ ॥
« »