Click on words to see what they mean.

जनमेजय उवाच ।अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् ॥ १ ॥
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः ॥ २ ॥
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ ३ ॥
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ॥ ४ ॥
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥ ५ ॥
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥ ६ ॥
एकान्तिनां च का चर्या कदा चोत्पादिता विभो ।एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ ७ ॥
वैशंपायन उवाच ।समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ ८ ॥
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ ९ ॥
संमितः सामवेदेन पुरैवादियुगे कृतः ।धार्यते स्वयमीशेन राजन्नारायणेन ह ॥ १० ॥
एतमर्थं महाराज पृष्टः पार्थेन नारदः ।ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥ ११ ॥
गुरुणा च ममाप्येष कथितो नृपसत्तम ।यथा तु कथितस्तत्र नारदेन तथा शृणु ॥ १२ ॥
यदासीन्मानसं जन्म नारायणमुखोद्गतम् ।ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ।तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ॥ १३ ॥
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ।वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे ।वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥ १४ ॥
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।तदा पितामहात्सोमादेतं धर्ममजानत ।नारायणात्मकं राजन्रुद्राय प्रददौ च सः ॥ १५ ॥
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ।वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् ।अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥ १६ ॥
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥ १७ ॥
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।तपसा वै सुतप्तेन दमेन नियमेन च ॥ १८ ॥
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् ।यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ॥ १९ ॥
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥ २० ॥
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा ।वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥ २१ ॥
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् ।ततः सोऽन्तर्दधे भूयो नारायणसमाहितः ॥ २२ ॥
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ २३ ॥
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् ।चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः ॥ २४ ॥
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः ।प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥ २५ ॥
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥ २६ ॥
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥ २७ ॥
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् ।आरण्यकेन सहितं नारायणमुखोद्गतम् ॥ २८ ॥
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ।तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् ।जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥ २९ ॥
ततोऽथ वरदो देवो ब्रह्मलोकपितामहः ।असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ३० ॥
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥ ३१ ॥
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥ ३२ ॥
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।अध्यापयामास तदा लोकानां हितकाम्यया ॥ ३३ ॥
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ॥ ३४ ॥
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् ।दिशापालं सुधर्माणमध्यापयत भारत ।ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥ ३५ ॥
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ।उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ॥ ३६ ॥
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ।सनत्कुमारादपि च वीरणो वै प्रजापतिः ।कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ॥ ३७ ॥
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ ।रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ ३८ ॥
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे ।ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥ ३९ ॥
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये ।एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥ ४० ॥
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि ।अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप ॥ ४१ ॥
बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम् ।ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥ ४२ ॥
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् ।अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ॥ ४३ ॥
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप ।तत्रैष धर्मः कथितः स्वयं नारायणेन हि ॥ ४४ ॥
पितामहाय शुद्धाय युगादौ लोकधारिणे ।पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥ ४५ ॥
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥ ४६ ॥
त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ ।मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ ४७ ॥
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥ ४८ ॥
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।कथितो हरिगीतासु समासविधिकल्पितः ॥ ४९ ॥
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः ।एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ ५० ॥
एवमेष महान्धर्म आद्यो राजन्सनातनः ।दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ ५१ ॥
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ ५२ ॥
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥ ५३ ॥
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥ ५४ ॥
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् ।एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ॥ ५५ ॥
अकर्ता चैव कर्ता च कार्यं कारणमेव च ।यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥ ५६ ॥
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ।एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ॥ ५७ ॥
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन ।अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ॥ ५८ ॥
एवं स भगवान्व्यासो गुरुर्मम विशां पते ।कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ॥ ५९ ॥
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥ ६० ॥
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् ।यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥ ६१ ॥
जनमेजय उवाच ।एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् ।न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥ ६२ ॥
वैशंपायन उवाच ।तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।सात्त्विकी राजसी चैव तामसी चेति भारत ॥ ६३ ॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ॥ ६४ ॥
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् ।नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥ ६५ ॥
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।एकान्तभक्तिः सततं नारायणपरायणः ॥ ६६ ॥
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः ।तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ ६७ ॥
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ ६८ ॥
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः ।नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥ ६९ ॥
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् ।एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ ७० ॥
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते ।तदात्मकं हि पुरुषं जायमानं विशां पते ।प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥ ७१ ॥
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।रजसा तमसा चैव मानुषं समभिप्लुतम् ॥ ७२ ॥
कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम ।हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥ ७३ ॥
जनमेजय उवाच ।कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ॥ ७४ ॥
वैशंपायन उवाच ।सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ॥ ७५ ॥
एवमेकं सांख्ययोगं वेदारण्यकमेव च ।परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते ।एष एकान्तिनां धर्मो नारायणपरात्मकः ॥ ७६ ॥
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति ।इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥ ७७ ॥
एष ते कथितो धर्मः सात्वतो यदुबान्धव ।कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥ ७८ ॥
एवं हि सुमहाभागो नारदो गुरवे मम ।श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ॥ ७९ ॥
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥ ८० ॥
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥ ८१ ॥
कृष्ण एव हि लोकानां भावनो मोहनस्तथा ।संहारकारकश्चैव कारणं च विशां पते ॥ ८२ ॥
« »