Click on words to see what they mean.

जनमेजय उवाच ।श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः ।जन्म धर्मगृहे चैव नरनारायणात्मकम् ।महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ॥ १ ॥
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ।स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ ॥ २ ॥
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ ।तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ ३ ॥
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा ।रूपं प्रभावमहतामपूर्वं धीमतां वर ॥ ४ ॥
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् ।तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥ ५ ॥
एतन्नः संशयं ब्रह्मन्पुराणज्ञानसंभवम् ।कथयस्वोत्तममते महापुरुषनिर्मितम् ।पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् ॥ ६ ॥
वैशंपायन उवाच ।कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् ।जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै ॥ ७ ॥
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः ।उत्पन्नसंशयो राजा तमेव समचोदयत् ॥ ८ ॥
युधिष्ठिर उवाच ।यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् ।किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥ ९ ॥
व्यास उवाच ।यत्किंचिदिह लोके वै देहबद्धं विशां पते ।सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ १० ॥
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च ।भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥ ११ ॥
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा ।ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ १२ ॥
वायौ चाकाशसंलीने आकाशे च मनोनुगे ।व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ १३ ॥
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च ।तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥ १४ ॥
तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम् ।तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम् ॥ १५ ॥
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते ।तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ १६ ॥
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः ।अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ १७ ॥
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः ।अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ।हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ १८ ॥
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः ।सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥ १९ ॥
ददृशेऽद्भुतसंकाशे लोकानापोमयान्प्रभुः ।सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् ॥ २० ॥
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे ।नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥ २१ ॥
तावपश्यत्स भगवाननादिनिधनोऽच्युतः ।एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥ २२ ॥
स तामसो मधुर्जातस्तदा नारायणाज्ञया ।कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥ २३ ॥
तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ ।बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥ २४ ॥
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् ।सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥ २५ ॥
ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ ।सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥ २६ ॥
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् ।रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥ २७ ॥
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् ।ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥ २८ ॥
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ॥ २९ ॥
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः ।अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः ।वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः ॥ ३० ॥
अहो बत महद्दुःखं वेदनाशनजं मम ।प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् ॥ ३१ ॥
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ।वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे ॥ ३२ ॥
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ।हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ।ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥ ३३ ॥
नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज ।लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो ॥ ३४ ॥
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित ।विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ॥ ३५ ॥
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयंभुवे ।त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ३६ ॥
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ।त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ॥ ३७ ॥
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ।नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ३८ ॥
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् ।इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ ॥ ३९ ॥
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः ।प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ॥ ४० ॥
त्वमीश्वरस्वभावश्च स्वयंभूः पुरुषोत्तमः ।त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः ॥ ४१ ॥
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि ।ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे ॥ ४२ ॥
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः ।जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ।ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः ॥ ४३ ॥
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ ४४ ॥
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका ।केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥ ४५ ॥
कर्णावाकाशपाताले ललाटं भूतधारिणी ।गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी ॥ ४६ ॥
चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता ।ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ ४७ ॥
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः ।गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ।ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥ ४८ ॥
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ।अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः ॥ ४९ ॥
रसां पुनः प्रविष्टश्च योगं परममास्थितः ।शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् ॥ ५० ॥
स स्वरः सानुनादी च सर्वगः स्निग्ध एव च ।बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ॥ ५१ ॥
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् ।रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥ ५२ ॥
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः ।जग्राह वेदानखिलान्रसातलगतान्हरिः ।प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥ ५३ ॥
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ ।वेदानामालयश्चापि बभूवाश्वशिरास्ततः ॥ ५४ ॥
अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ ।पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ ।यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥ ५५ ॥
तत उत्तममास्थाय वेगं बलवतां वरौ ।पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ।ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥ ५६ ॥
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् ।भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥ ५७ ॥
आत्मप्रमाणरचिते अपामुपरि कल्पिते ।शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ ५८ ॥
निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् ।तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ ५९ ॥
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ ६० ॥
अनेन नूनं वेदानां कृतमाहरणं रसात् ।कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् ॥ ६१ ॥
इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ।युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥ ६२ ॥
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे ।अथ युद्धं समभवत्तयोर्नारायणस्य च ॥ ६३ ॥
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ॥ ६४ ॥
ततस्तयोर्वधेनाशु वेदापहरणेन च ।शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ ६५ ॥
ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः ।निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ६६ ॥
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् ।तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ ६७ ॥
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ ६८ ॥
एवमेष महाभागो बभूवाश्वशिरा हरिः ।पौराणमेतदाख्यातं रूपं वरदमैश्वरम् ॥ ६९ ॥
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा ।न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥ ७० ॥
आराध्य तपसोग्रेण देवं हयशिरोधरम् ।पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ ७१ ॥
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ ७२ ॥
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ७३ ॥
एष वेदनिधिः श्रीमानेष वै तपसो निधिः ।एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥ ७४ ॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः ।तपो नारायणपरं नारायणपरा गतिः ॥ ७५ ॥
नारायणपरं सत्यमृतं नारायणात्मकम् ।नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ ७६ ॥
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ ७७ ॥
अपां चैव गुणो राजन्रसो नारायणात्मकः ।ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥ ७८ ॥
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ।नारायणात्मकश्चापि शब्द आकाशसंभवः ॥ ७९ ॥
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।नारायणपरः कालो ज्योतिषामयनं च यत् ॥ ८० ॥
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ।नारायणपरं सांख्यं योगो नारायणात्मकः ॥ ८१ ॥
कारणं पुरुषो येषां प्रधानं चापि कारणम् ।स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ ८२ ॥
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः ।तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ ८३ ॥
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ।सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ॥ ८४ ॥
सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।मनीषितं विजानाति केशवो न तु तस्य ते ॥ ८५ ॥
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥ ८६ ॥
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ८७ ॥
अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्निर्गुणाख्यः ।गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसंप्रयुक्तः ॥ ८८ ॥
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति ।ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ८९ ॥
« »