Click on words to see what they mean.

वैशंपायन उवाच ।कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥ १ ॥
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः ।क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥ २ ॥
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् ।किमेतत्क्रियते कर्म फलं चास्य किमिष्यते ॥ ३ ॥
नारद उवाच ।त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि ।दैवतं च परो यज्ञः परमात्मा सनातनः ॥ ४ ॥
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् ।तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥ ५ ॥
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् ।अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥ ६ ॥
यजाम्यहं पितॄन्साधो नारायणविधौ कृते ।एवं स एव भगवान्पिता माता पितामहः ।इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥ ७ ॥
श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन् ।वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः ।ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ॥ ८ ॥
नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः ।पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥ ९ ॥
त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति ।कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥ १० ॥
नरनारायणावूचतुः ।इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् ।गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ॥ ११ ॥
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः ।जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥ १२ ॥
प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ ।दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः ।स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ॥ १३ ॥
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि ।संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ॥ १४ ॥
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि ।प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम् ॥ १५ ॥
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् ।अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ॥ १६ ॥
तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् ।दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ।आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ॥ १७ ॥
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे ।भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥ १८ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ॥ १९ ॥
नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् ।को वा मम पिता लोके अहमेव पितामहः ॥ २० ॥
पितामहपिता चैव अहमेवात्र कारणम् ।इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ॥ २१ ॥
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् ।आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥ २२ ॥
एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः ।लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ २३ ॥
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा ।गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा ।कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ॥ २४ ॥
अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः ।समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ।महान्महात्मा सर्वात्मा नारायण इति श्रुतः ॥ २५ ॥
« »