Click on words to see what they mean.

भीष्म उवाच ।एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः ।तं मुनिं दर्शयामास नारदं विश्वरूपधृक् ॥ १ ॥
किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् ।कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः ॥ २ ॥
शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः ।नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥ ३ ॥
प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ ।क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् ॥ ४ ॥
नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् ।मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥ ५ ॥
एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः ।सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् ॥ ६ ॥
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् ।ओंकारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् ॥ ७ ॥
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु ।आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥ ८ ॥
वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् ।अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् ।धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥ ९ ॥
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः ।वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् ।तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥ १० ॥
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥ ११ ॥
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन ।ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः ॥ १२ ॥
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज ।तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥ १३ ॥
वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि ।प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥ १४ ॥
नारद उवाच ।अद्य मे तपसो देव यमस्य नियमस्य च ।सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥ १५ ॥
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः ।भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः ॥ १६ ॥
भीष्म उवाच ।एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् ।उवाच वचनं भूयो गच्छ नारद माचिरम् ॥ १७ ॥
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः ।एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥ १८ ॥
सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् ।तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥ १९ ॥
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च ।न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥ २० ॥
सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै ।यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥ २१ ॥
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति ।अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥ २२ ॥
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः ।पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥ २३ ॥
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम ।स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥ २४ ॥
पश्य देवस्य माहात्म्यं महिमानं च नारद ।शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥ २५ ॥
सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते ।एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥ २६ ॥
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते ।निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः ॥ २७ ॥
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ २८ ॥
खे वायुः प्रलयं याति मनस्याकाशमेव च ।मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥ २९ ॥
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते ।नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् ॥ ३० ॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥ ३१ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।ते समेता महात्मानः शरीरमिति संज्ञितम् ॥ ३२ ॥
तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः ।उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥ ३३ ॥
न विना धातुसंघातं शरीरं भवति क्वचित् ।न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत ॥ ३४ ॥
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः ।तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा ॥ ३५ ॥
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये ।स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥ ३६ ॥
तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च ।यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् ।सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥ ३७ ॥
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः ।ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः ॥ ३८ ॥
संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते ।प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः ॥ ३९ ॥
मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् ।अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥ ४० ॥
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम ।अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥ ४१ ॥
निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः ।एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥ ४२ ॥
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ।मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥ ४३ ॥
सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् ।तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥ ४४ ॥
अहं कर्ता च कार्यं च कारणं चापि नारद ।अहं हि जीवसंज्ञो वै मयि जीवः समाहितः ।मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च ॥ ४५ ॥
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः ।भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥ ४६ ॥
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः ।ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥ ४७ ॥
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् ।द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान् ॥ ४८ ॥
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् ।नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ॥ ४९ ॥
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि ।वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ॥ ५० ॥
तपांसि नियमांश्चैव यमानपि पृथग्विधान् ।तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् ॥ ५१ ॥
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् ।वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ॥ ५२ ॥
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् ।अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ॥ ५३ ॥
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम ।त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ॥ ५४ ॥
देवकार्यादपि मुने पितृकार्यं विशिष्यते ।देवानां च पितॄणां च पिता ह्येकोऽहमादितः ॥ ५५ ॥
अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे ।पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ॥ ५६ ॥
मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् ।ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् ॥ ५७ ॥
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च ।अहंकारकृतं चैव नाम पर्यायवाचकम् ॥ ५८ ॥
त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन ।त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ॥ ५९ ॥
सुरासुरगणानां च ऋषीणां च तपोधन ।पितॄणां च महाभाग सततं संशितव्रत ।विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ ६० ॥
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा ।अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥ ६१ ॥
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे ।अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥ ६२ ॥
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता ।तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥ ६३ ॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः ॥ ६४ ॥
हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः ।सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥ ६५ ॥
एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः ।ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ।कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ॥ ६६ ॥
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ।ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ॥ ६७ ॥
अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् ।स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ ६८ ॥
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः ।अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः ॥ ६९ ॥
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ।एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥ ७० ॥
यथा सूर्यस्य गगनादुदयास्तमयाविह ।नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः ।तथा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥ ७१ ॥
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् ।आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥ ७२ ॥
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् ।नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः ।सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥ ७३ ॥
विरोचनस्य बलवान्बलिः पुत्रो महासुरः ।भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥ ७४ ॥
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ॥ ७५ ॥
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे ।देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद ।बलिं चैव करिष्यामि पातालतलवासिनम् ॥ ७६ ॥
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥ ७७ ॥
संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च ।रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥ ७८ ॥
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा ।प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी ॥ ७९ ॥
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः ।ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥ ८० ॥
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् ।हनिष्ये रावणं संख्ये सगणं लोककण्टकम् ॥ ८१ ॥
द्वापरस्य कलेश्चैव संधौ पर्यवसानिके ।प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥ ८२ ॥
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् ।कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥ ८३ ॥
वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् ।हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥ ८४ ॥
प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् ।कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ॥ ८५ ॥
शंकरं च महासेनं बाणप्रियहितैषिणम् ।पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ ॥ ८६ ॥
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् ।विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥ ८७ ॥
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः ।भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥ ८८ ॥
जरासंधश्च बलवान्सर्वराजविरोधकः ।भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ।मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ॥ ८९ ॥
समागतेषु बलिषु पृथिव्यां सर्वराजसु ।वासविः सुसहायो वै मम ह्येको भविष्यति ॥ ९० ॥
एवं लोका वदिष्यन्ति नरनारायणावृषी ।उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥ ९१ ॥
कृत्वा भारावतरणं वसुधाया यथेप्सितम् ।सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ।करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् ॥ ९२ ॥
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् ।कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥ ९३ ॥
हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम ।यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा ।सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥ ९४ ॥
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् ।अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ।लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ॥ ९५ ॥
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् ।यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना ॥ ९६ ॥
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया ।पुराणं च भविष्यं च सरहस्यं च सत्तम ॥ ९७ ॥
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः ।एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ ९८ ॥
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् ।नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् ॥ ९९ ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥ १०० ॥
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः ।ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् ॥ १०१ ॥
युधिष्ठिर उवाच ।एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः ।किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् ॥ १०२ ॥
पितामहो हि भगवांस्तस्माद्देवादनन्तरः ।कथं स न विजानीयात्प्रभावममितौजसः ॥ १०३ ॥
भीष्म उवाच ।महाकल्पसहस्राणि महाकल्पशतानि च ।समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥ १०४ ॥
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः ।जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ।परमात्मानमीशानमात्मनः प्रभवं तथा ॥ १०५ ॥
ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः ।तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥ १०६ ॥
तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् ।आत्मानुगामिनां ब्रह्म श्रावयामास भारत ॥ १०७ ॥
षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् ।सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः ।तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥ १०८ ॥
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः ।मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् ॥ १०९ ॥
देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः ।श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः ॥ ११० ॥
मम चापि पिता तात कथयामास शंतनुः ।ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत ॥ १११ ॥
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् ।सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥ ११२ ॥
इदमाख्यानमार्षेयं पारंपर्यागतं नृप ।नावासुदेवभक्ताय त्वया देयं कथंचन ॥ ११३ ॥
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै ।यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः ॥ ११४ ॥
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् ।एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥ ११५ ॥
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः ।एकान्तभावोपगत एकान्ते सुसमाहितः ॥ ११६ ॥
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ ११७ ॥
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥ ११८ ॥
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः ।स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ११९ ॥
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः ।युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः ॥ १२० ॥
वैशंपायन उवाच ।श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय ।भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥ १२१ ॥
जितं भगवता तेन पुरुषेणेति भारत ।नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् ॥ १२२ ॥
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः ।स जगौ परमं जप्यं नारायणमुदीरयन् ॥ १२३ ॥
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् ।पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् ॥ १२४ ॥
« »