Click on words to see what they mean.

युधिष्ठिर उवाच ।यदा भक्तो भगवत आसीद्राजा महावसुः ।किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ऋषीणां चैव संवादं त्रिदशानां च भारत ॥ २ ॥
अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् ।स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥ ३ ॥
ऋषय ऊचुः ।बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ ॥ ४ ॥
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः ।इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥ ५ ॥
भीष्म उवाच ।तेषां संवदतामेवमृषीणां विबुधैः सह ।मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ।अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः ॥ ६ ॥
तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् ।ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् ॥ ७ ॥
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः ।कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः ॥ ८ ॥
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ।अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् ॥ ९ ॥
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः ।एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥ १० ॥
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ।कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ॥ ११ ॥
ऋषय ऊचुः ।धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप ।देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥ १२ ॥
भीष्म उवाच ।देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥ १३ ॥
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः ।ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥ १४ ॥
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।अद्य प्रभृति ते राजन्नाकाशे विहता गतिः ।अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ॥ १५ ॥
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा ।अधो वै संबभूवाशु भूमेर्विवरगो नृपः ।स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया ॥ १६ ॥
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् ।चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥ १७ ॥
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना ।अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥ १८ ॥
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः ।ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा ॥ १९ ॥
ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् ।कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ॥ २० ॥
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् ।अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥ २१ ॥
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् ।एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम ॥ २२ ॥
यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ ।भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि ।यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः ॥ २३ ॥
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् ।न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥ २४ ॥
वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च ।स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥ २५ ॥
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः ।गताः स्वभवनं देवा ऋषयश्च तपोधनाः ॥ २६ ॥
चक्रे च सततं पूजां विष्वक्सेनाय भारत ।जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥ २७ ॥
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम ।अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥ २८ ॥
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः ।अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥ २९ ॥
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ।गरुत्मन्तं महावेगमाबभाषे स्मयन्निव ॥ ३० ॥
द्विजोत्तम महाभाग गम्यतां वचनान्मम ।सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ॥ ३१ ॥
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् ।मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ॥ ३२ ॥
भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया ।अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥ ३३ ॥
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ।विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥ ३४ ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः ।उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥ ३५ ॥
तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः ।सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥ ३६ ॥
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया ।प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना ॥ ३७ ॥
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ।ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥ ३८ ॥
एतत्ते सर्वमाख्यातं ते भूता मानवा यथा ।नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः ।तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ३९ ॥
« »