Click on words to see what they mean.

वैशंपायन उवाच ।तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् ।तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ १ ॥
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन ।धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ॥ २ ॥
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् ।ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ॥ ३ ॥
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ ।तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥ ४ ॥
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः ।स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥ ५ ॥
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः ।भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ।पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ॥ ६ ॥
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ।धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ॥ ७ ॥
ते त्वया धर्महन्तारो निहताः सपदानुगाः ।स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ।राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥ ८ ॥
युधिष्ठिर उवाच ।न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन ।अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ॥ ९ ॥
मया ह्यवध्या बहवो घातिता राज्यकारणात् ।तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ॥ १० ॥
व्यास उवाच ।ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत ।हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥ ११ ॥
ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव ।कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥ १२ ॥
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने ।छेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥ १३ ॥
अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् ।दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १४ ॥
न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् ।प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥ १५ ॥
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः ।न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ॥ १६ ॥
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते ।दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १७ ॥
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् ।एवमप्यशुभं कर्म न भूतं न भविष्यति ॥ १८ ॥
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः ।अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ॥ १९ ॥
अथापि लोके कर्माणि समावर्तन्त भारत ।शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ॥ २० ॥
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् ।त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ॥ २१ ॥
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत ।एवमात्मपरित्यागस्तव राजन्न शोभनः ॥ २२ ॥
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् ।शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥ २३ ॥
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि ।प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥ २४ ॥
« »