Click on words to see what they mean.

नारद उवाच ।सुखदुःखविपर्यासो यदा समुपपद्यते ।नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥ १ ॥
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥ २ ॥
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ३ ॥
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः ।अवशस्य विनाशाय शरीरमपकृष्यते ॥ ४ ॥
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥ ५ ॥
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।जातं मर्त्यं जरयति निमेषं नावतिष्ठते ॥ ६ ॥
सुखदुःखानि भूतानामजरो जरयन्नसौ ।आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ ७ ॥
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ८ ॥
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ ९ ॥
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः ।दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ॥ १० ॥
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः ।आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥ ११ ॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥ १२ ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति ॥ १३ ॥
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः ।शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ १४ ॥
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा ।आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ १५ ॥
केषांचित्पुत्रकामानामनुसंतानमिच्छताम् ।सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥ १६ ॥
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव ।आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः ॥ १७ ॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।दश मासान्परिधृता जायन्ते कुलपांसनाः ॥ १८ ॥
अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ १९ ॥
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे ।उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥ २० ॥
शीर्णं परशरीरेण निच्छवीकं शरीरिणम् ।प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥ २१ ॥
निर्दग्धं परदेहेन परदेहं चलाचलम् ।विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ॥ २२ ॥
संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ।केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥ २३ ॥
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥ २४ ॥
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः ।धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः ॥ २५ ॥
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे ।आगमेन सहान्येषां विनाश उपपद्यते ॥ २६ ॥
एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते ।प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति ॥ २७ ॥
शतस्य सहजातस्य सप्तमीं दशमीं दशाम् ।प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥ २८ ॥
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ॥ २९ ॥
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् ।वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ ३० ॥
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः ।व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥ ३१ ॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥ ३२ ॥
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः ।श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥ ३३ ॥
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः ।आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ ३४ ॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥ ३५ ॥
न धनेन न राज्येन नोग्रेण तपसा तथा ।स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु ॥ ३६ ॥
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः ।नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति ॥ ३७ ॥
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति ।यतते च यथाशक्ति न च तद्वर्तते तथा ॥ ३८ ॥
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च ।अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥ ३९ ॥
क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः ।स्वं स्वं च पुनरन्येषां न किंचिदभिगम्यते ॥ ४० ॥
महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ।वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ॥ ४१ ॥
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः ।मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः ॥ ४२ ॥
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ॥ ४३ ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ ४४ ॥
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥ ४५ ॥
भीष्म उवाच ।नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् ।संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥ ४६ ॥
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः ।किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥ ४७ ॥
ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः ।परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥ ४८ ॥
कथं त्वहमसंक्लिष्टो गच्छेयं परमां गतिम् ।नावर्तेयं यथा भूयो योनिसंसारसागरे ॥ ४९ ॥
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ॥ ५० ॥
तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति ।अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥ ५१ ॥
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः ।अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते ॥ ५२ ॥
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् ।वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥ ५३ ॥
न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा ।कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ।क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ॥ ५४ ॥
रविस्तु संतापयति लोकान्रश्मिभिरुल्बणैः ।सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥ ५५ ॥
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् ।अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥ ५६ ॥
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् ।ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् ॥ ५७ ॥
आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् ।देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥ ५८ ॥
लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः ।पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥ ५९ ॥
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् ।तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति ॥ ६० ॥
सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम् ।शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः ॥ ६१ ॥
श्रुत्वा ऋषिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् ।भो भोः पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थम् ॥ ६२ ॥
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ।पितरं संपरित्यज्य जगाम द्विजसत्तमः ॥ ६३ ॥
« »