Click on words to see what they mean.

नारद उवाच ।अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् ।निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ॥ १ ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ २ ॥
तस्मादनिष्टनाशार्थमितिहासं निबोध मे ।तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥ ३ ॥
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च ।मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥ ४ ॥
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् ।ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ॥ ५ ॥
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते ।अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥ ६ ॥
नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ ७ ॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ ८ ॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ ९ ॥
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् ।सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ॥ १० ॥
दुःखोपघाते शारीरे मानसे वाप्युपस्थिते ।यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् ॥ ११ ॥
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ १२ ॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ १३ ॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ॥ १४ ॥
न जानपदिकं दुःखमेकः शोचितुमर्हति ।अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १५ ॥
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः ।स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ १६ ॥
परित्यजति यो दुःखं सुखं वाप्युभयं नरः ।अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः ॥ १७ ॥
दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः ।दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥ १८ ॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः ॥ १९ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ २० ॥
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ।तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥ २१ ॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति ।स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥ २२ ॥
भूतेष्वभावं संचिन्त्य ये बुद्ध्वा तमसः परम् ।न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ २३ ॥
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति ॥ २४ ॥
अथाप्युपायं संपश्येद्दुःखस्य परिमोक्षणे ।अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ २५ ॥
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च ।नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा ॥ २६ ॥
प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम् ।विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥ २७ ॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ॥ २८ ॥
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च ।विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ २९ ॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ॥ ३० ॥
« »