Click on words to see what they mean.

भीष्म उवाच ।स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।अरणीं त्वथ संगृह्य ममन्थाग्निचिकीर्षया ॥ १ ॥
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा ।घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥ २ ॥
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः ।अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥ ३ ॥
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् ।शुकी भूत्वा महाराज घृताची समुपागमत् ॥ ४ ॥
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् ।शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥ ५ ॥
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः ।न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ।भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥ ६ ॥
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ ७ ॥
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः ।अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥ ८ ॥
शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः ।परमर्षिर्महायोगी अरणीगर्भसंभवः ॥ ९ ॥
यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ।तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ १० ॥
बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् ।बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् ॥ ११ ॥
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर ।स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा ॥ १२ ॥
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह ।पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः ॥ १३ ॥
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः ।देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ॥ १४ ॥
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ।हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम् ॥ १५ ॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥ १६ ॥
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः ।जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥ १७ ॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ १८ ॥
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् ।ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥ १९ ॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥ २० ॥
आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः ।तत्रैवोवास मेधावी व्रतचारी समाहितः ॥ २१ ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।उपतस्थुर्महाराज यथास्य पितरं तथा ॥ २२ ॥
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् ।उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥ २३ ॥
सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ।इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो ॥ २४ ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ।उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥ २५ ॥
देवतानामृषीणां च बाल्येऽपि स महातपाः ।संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥ २६ ॥
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप ।त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ २७ ॥
« »