Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः ।सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥ १ ॥
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः ।न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः ॥ २ ॥
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः ।यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥ ३ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥ ४ ॥
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह ।यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥ ५ ॥
भीष्म उवाच ।न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ६ ॥
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव ।तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥ ७ ॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः ॥ ८ ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।योगस्य कलया तात न तुल्यं विद्यते फलम् ॥ ९ ॥
अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा ।शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥ १० ॥
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते ।विजहार महादेवो भीमैर्भूतगणैर्वृतः ॥ ११ ॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ।तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥ १२ ॥
योगेनात्मानमाविश्य योगधर्मपरायणः ।धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ॥ १३ ॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो ।वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ॥ १४ ॥
संकल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः ।वरयामास देवेशमास्थितस्तप उत्तमम् ॥ १५ ॥
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः ।आराधयन्महादेवं बहुरूपमुमापतिम् ॥ १६ ॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ।लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥ १७ ॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ।मरुतो मारुतश्चैव सागराः सरितस्तथा ॥ १८ ॥
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ ।विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥ १९ ॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ।धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥ २० ॥
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले ।आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः ॥ २१ ॥
न चास्य हीयते वर्णो न ग्लानिरुपजायते ।त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥ २२ ॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ।प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥ २३ ॥
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम ।स देवचरितानीह कथयामास मे सदा ॥ २४ ॥
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः ।अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ॥ २५ ॥
एवंविधेन तपसा तस्य भक्त्या च भारत ।महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ २६ ॥
उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव ।एवंविधस्ते तनयो द्वैपायन भविष्यति ॥ २७ ॥
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् ।यथा च खं तथा शुद्धो भविष्यति सुतो महान् ॥ २८ ॥
तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः ।तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ २९ ॥
« »