Click on words to see what they mean.

वैशंपायन उवाच ।ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत ।भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम् ॥ १ ॥
एवमुक्तः स च मुनिर्धर्मराजेन नारदः ।आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ॥ २ ॥
एवमेतन्महाराज यथायं केशवोऽब्रवीत् ।कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥ ३ ॥
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः ।वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ॥ ४ ॥
तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा ।सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥ ५ ॥
व्यतिक्रान्तासु वर्षासु समये गमनस्य च ।पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥ ६ ॥
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ ।उषितौ समये ब्रह्मंश्चिन्त्यतामत्र सांप्रतम् ॥ ७ ॥
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् ।सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥ ८ ॥
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति ।आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥ ९ ॥
तत आहूय राजानं सृञ्जयं शुभदर्शनम् ।पर्वतोऽनुमतं वाक्यमुवाच मुनिपुंगवः ॥ १० ॥
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसंभृतैः ।आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥ ११ ॥
देवानामविहिंसायां यद्भवेन्मानुषक्षमम् ।तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥ १२ ॥
सृञ्जय उवाच ।प्रीतौ भवन्तौ यदि मे कृतमेतावता मम ।एष एव परो लाभो निर्वृत्तो मे महाफलः ॥ १३ ॥
नारद उवाच ।तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत ।वृणीष्व राजन्संकल्पो यस्ते हृदि चिरं स्थितः ॥ १४ ॥
सृञ्जय उवाच ।अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् ।आयुष्मन्तं महाभागं देवराजसमद्युतिम् ॥ १५ ॥
पर्वत उवाच ।भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति ।देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि ॥ १६ ॥
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति ।रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥ १७ ॥
नारद उवाच ।तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः ।प्रसादयामास तदा नैतदेवं भवेदिति ॥ १८ ॥
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने ।न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया ॥ १९ ॥
तमहं नृपतिं दीनमब्रुवं पुनरेव तु ।स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ॥ २० ॥
अहं ते दयितं पुत्रं प्रेतराजवशं गतम् ।पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥ २१ ॥
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् ।सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥ २२ ॥
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये ।जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥ २३ ॥
ववृधे स यथाकालं सरसीव महोत्पलम् ।बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥ २४ ॥
तदद्भुततमं लोके पप्रथे कुरुसत्तम ।बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः ॥ २५ ॥
ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः ।कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ॥ २६ ॥
चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् ।व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥ २७ ॥
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति ।सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ ॥ २८ ॥
एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः ।कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ॥ २९ ॥
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् ।हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ॥ ३० ॥
ततो भागीरथीतीरे कदाचिद्वननिर्झरे ।धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥ ३१ ॥
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः ।सहसोत्पतितं व्याघ्रमाससाद महाबलः ॥ ३२ ॥
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः ।व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥ ३३ ॥
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत ।शार्दूलो देवराजस्य माययान्तर्हितस्तदा ॥ ३४ ॥
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् ।अभ्यधावत तं देशं स्वयमेव महीपतिः ॥ ३५ ॥
स ददर्श गतासुं तं शयानं पीतशोणितम् ।कुमारं विगतानन्दं निशाकरमिव च्युतम् ॥ ३६ ॥
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् ।पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥ ३७ ॥
ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः ।अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥ ३८ ॥
ततः स राजा सस्मार मामन्तर्गतमानसः ।तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥ ३९ ॥
स मयैतानि वाक्यानि श्रावितः शोकलालसः ।यानि ते यदुवीरेण कथितानि महीपते ॥ ४० ॥
संजीवितश्चापि मया वासवानुमते तदा ।भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ॥ ४१ ॥
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः ।चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ॥ ४२ ॥
कारयामास राज्यं स पितरि स्वर्गते विभुः ।वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ॥ ४३ ॥
तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ॥ ४४ ॥
उत्पाद्य च बहून्पुत्रान्कुलसंतानकारिणः ।कालेन महता राजन्कालधर्ममुपेयिवान् ॥ ४५ ॥
स त्वं राजेन्द्र संजातं शोकमेतन्निवर्तय ।यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ॥ ४६ ॥
पितृपैतामहं राज्यमास्थाय दुरमुद्वह ।इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि ॥ ४७ ॥
« »