Click on words to see what they mean.

युधिष्ठिर उवाच ।धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् ।जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ १ ॥
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् ।शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ २ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ ३ ॥
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः ।पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ ४ ॥
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः ।किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ ५ ॥
प्रभवं चाप्ययं चैव कालसंख्यां तथैव च ।वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ ६ ॥
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ ७ ॥
याज्ञवल्क्य उवाच ।श्रूयतामवनीपाल यदेतदनुपृच्छसि ।योगानां परमं ज्ञानं सांख्यानां च विशेषतः ॥ ८ ॥
न तवाविदितं किंचिन्मां तु जिज्ञासते भवान् ।पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ ९ ॥
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश ।अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ १० ॥
अव्यक्तं च महांश्चैव तथाहंकार एव च ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ११ ॥
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२ ॥
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ।वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ १३ ॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ १४ ॥
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः ।त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १५ ॥
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव ।प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १६ ॥
महतश्चाप्यहंकार उत्पद्यति नराधिप ।द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ १७ ॥
अहंकाराच्च संभूतं मनो भूतगुणात्मकम् ।तृतीयः सर्ग इत्येष आहंकारिक उच्यते ॥ १८ ॥
मनसस्तु समुद्भूता महाभूता नराधिप ।चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ १९ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ २० ॥
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥ २१ ॥
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप ।सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ २२ ॥
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप ।अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २३ ॥
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप ।नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २४ ॥
एतानि नव सर्गाणि तत्त्वानि च नराधिप ।चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् ॥ २५ ॥
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे ॥ २६ ॥
« »