Click on words to see what they mean.

युधिष्ठिर उवाच ।सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः ।योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १ ॥
सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते ।त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २ ॥
भीष्म उवाच ।शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम् ।विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ॥ ३ ॥
यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ ।गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ ४ ॥
ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप ।मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ ५ ॥
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा ।विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥ ६ ॥
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप ।सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥ ७ ॥
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥ ८ ॥
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् ।विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ॥ ९ ॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः ।सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ १० ॥
प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् ।तिर्यक्च पततां दुःखं पततां नरके च यत् ॥ ११ ॥
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत ।वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ॥ १२ ॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप ।सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥ १३ ॥
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ।तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥ १४ ॥
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा ।बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ॥ १५ ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः ।मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ॥ १६ ॥
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभैः ।प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ १७ ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ॥ १८ ॥
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् ।मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ॥ १९ ॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् ।अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ॥ २० ॥
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् ।नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥ २१ ॥
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् ।रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥ २२ ॥
सक्तमात्मानमीशे च देवे नारायणे तथा ।देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥ २३ ॥
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः ।स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ॥ २४ ॥
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते ।द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ २५ ॥
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २६ ॥
अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः ।सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥ २७ ॥
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् ।सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप ॥ २८ ॥
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् ।ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ॥ २९ ॥
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव ।गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ॥ ३० ॥
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ।योनीषु च विचित्रासु संसारानशुभांस्तथा ॥ ३१ ॥
जठरे चाशुभे वासं शोणितोदकभाजने ।श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ ३२ ॥
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ।सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ॥ ३३ ॥
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ।तामसानां च जन्तूनां रमणीयावृतात्मनाम् ॥ ३४ ॥
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ ।गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् ॥ ३५ ॥
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ।ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ ३६ ॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप ।अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ ३७ ॥
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ।रागे मोहे च संप्राप्ते क्वचित्सत्त्वं समाश्रितम् ॥ ३८ ॥
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ।दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ ३९ ॥
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥ ४० ॥
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् ।वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥ ४१ ॥
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ।सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ ४२ ॥
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर ।सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ॥ ४३ ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥ ४४ ॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ॥ ४५ ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ ४६ ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ॥ ४७ ॥
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः ।क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥ ४८ ॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः ।जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥ ४९ ॥
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः ।देहविक्लवतां चैव सम्यग्विज्ञाय भारत ॥ ५० ॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् ।स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥ ५१ ॥
युधिष्ठिर उवाच ।कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम ।एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ ५२ ॥
भीष्म उवाच ।पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः ।मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन ॥ ५३ ॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ ५४ ॥
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ।सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा ।छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ॥ ५५ ॥
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ।हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥ ५६ ॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् ।चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् ॥ ५७ ॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् ।नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् ।रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥ ५८ ॥
सांख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् ।ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप ॥ ५९ ॥
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् ।पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ।छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ॥ ६० ॥
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् ।व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥ ६१ ॥
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ।स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम ॥ ६२ ॥
कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप ।हिंसाशीघ्रमहावेगं नानारसमहाकरम् ॥ ६३ ॥
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥ ६४ ॥
अस्थिसंघातसंघाटं श्लेष्मफेनमरिंदम ।दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् ॥ ६५ ॥
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् ।रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ॥ ६६ ॥
पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् ।अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥ ६७ ॥
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् ।मोक्षदुष्प्रापविषयं वडवामुखसागरम् ॥ ६८ ॥
तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत ।तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ॥ ६९ ॥
ततस्तान्सुकृतीन्सांख्यान्सूर्यो वहति रश्मिभिः ।पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप ॥ ७० ॥
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत ।वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥ ७१ ॥
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत ।सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।स तान्वहति कौन्तेय नभसः परमां गतिम् ॥ ७२ ॥
नभो वहति लोकेश रजसः परमां गतिम् ।रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ॥ ७३ ॥
सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् ।प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ ७४ ॥
परमात्मानमासाद्य तद्भूतायतनामलाः ।अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो ।परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ॥ ७५ ॥
युधिष्ठिर उवाच ।स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।आजन्ममरणं वा ते स्मरन्त्युत न वानघ ॥ ७६ ॥
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि ।त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव ॥ ७७ ॥
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् ।यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ ७८ ॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप ।मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ॥ ७९ ॥
भीष्म उवाच ।यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः ।बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ।अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् ॥ ८० ॥
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ।इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप ।कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ ८१ ॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ ८२ ॥
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन ।सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ ८३ ॥
स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो ।बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ ८४ ॥
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि ।अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥ ८५ ॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः ।आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ ८६ ॥
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः ।गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥ ८७ ॥
गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा ।गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः ॥ ८८ ॥
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि ।सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर ॥ ८९ ॥
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे ।शिष्या इव महात्मानमिन्द्रियाणि च तं विभो ॥ ९० ॥
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ॥ ९१ ॥
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् ।परमात्मानमगुणं न निवर्तति भारत ॥ ९२ ॥
शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत ।आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ ९३ ॥
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना ।एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ ९४ ॥
सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ।ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ ९५ ॥
अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम् ॥ ९६ ॥
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ ९७ ॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ ९८ ॥
सर्वे विप्राश्च देवाश्च तथागमविदो जनाः ।ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ॥ ९९ ॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ १०० ॥
अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः ।अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ १०१ ॥
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते ।जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते ॥ १०२ ॥
ज्ञानं महद्यद्धि महत्सु राजन्वेदेषु सांख्येषु तथैव योगे ।यच्चापि दृष्टं विविधं पुराणं सांख्यागतं तन्निखिलं नरेन्द्र ॥ १०३ ॥
यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महन्महात्मन् ॥ १०४ ॥
शमश्च दृष्टः परमं बलं च ज्ञानं च सूक्ष्मं च यथावदुक्तम् ।तपांसि सूक्ष्माणि सुखानि चैव सांख्ये यथावद्विहितानि राजन् ॥ १०५ ॥
विपर्यये तस्य हि पार्थ देवान्गच्छन्ति सांख्याः सततं सुखेन ।तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥ १०६ ॥
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ सांख्याः ।ततोऽधिकं तेऽभिरता महार्हे सांख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ १०७ ॥
तेषां न तिर्यग्गमनं हि दृष्टं नावाग्गतिः पापकृतां निवासः ।न चाबुधानामपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ १०८ ॥
सांख्यं विशालं परमं पुराणं महार्णवं विमलमुदारकान्तम् ।कृत्स्नं च सांख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम् ॥ १०९ ॥
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम् ।स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ॥ ११० ॥
« »