Click on words to see what they mean.

वैशंपायन उवाच ।अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे ।गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥ १ ॥
ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः ।एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥ २ ॥
सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ॥ ३ ॥
एवमुक्तस्तु गोविन्दो विजयेन महात्मना ।पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥ ४ ॥
अनतिक्रमणीयो हि धर्मराजस्य केशवः ।बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ॥ ५ ॥
संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥ ६ ॥
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ॥ ७ ॥
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् ।न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ॥ ८ ॥
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ॥ ९ ॥
सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः ।नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ॥ १० ॥
सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे ।शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ॥ ११ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ॥ १२ ॥
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।अविमुक्तं चरिष्यामस्तत्र का परिदेवना ॥ १३ ॥
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु ।गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥ १४ ॥
मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् ।श्रुत्वापनय संतापं शृणु विस्तरशश्च मे ॥ १५ ॥
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि ।यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥ १६ ॥
यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् ।शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ।संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥ १७ ॥
यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम ।अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥ १८ ॥
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः ।मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥ १९ ॥
मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते ।देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ २० ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ २१ ॥
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम ।यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम् ॥ २२ ॥
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप ।हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥ २३ ॥
कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि ।नदीष्वपातयद्राजन्मघवा लोकपूजितः ॥ २४ ॥
हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् ।सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥ २५ ॥
तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले ।ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥ २६ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ॥ २७ ॥
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय ।यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ॥ २८ ॥
सहस्रं च सहस्राणां कन्या हेमविभूषिताः ।ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ २९ ॥
शतं शतसहस्राणां वृषाणां हेममालिनाम् ।गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥ ३० ॥
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ३१ ॥
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः ।देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ ३२ ॥
न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति ।यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥ ३३ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ३४ ॥
शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय ।य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ॥ ३५ ॥
महता रथघोषेण पृथिवीमनुनादयन् ।एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥ ३६ ॥
यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह ।तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥ ३७ ॥
नोद्यन्तारं धुरं तस्य कंचिन्मेने प्रजापतिः ।न भूतं न भविष्यन्तं सर्वराजसु भारत ।अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥ ३८ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ॥ ३९ ॥
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम ।शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ॥ ४० ॥
यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु ।सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥ ४१ ॥
अश्वमेधसहस्रेण राजसूयशतेन च ।इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ॥ ४२ ॥
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः ।खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥ ४३ ॥
परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च ।सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥ ४४ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ४५ ॥
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय ।योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥ ४६ ॥
विधवा यस्य विषये नानाथाः काश्चनाभवन् ।सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ॥ ४७ ॥
कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च ।नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥ ४८ ॥
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् ।न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ॥ ४९ ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः ।अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ॥ ५० ॥
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥ ५१ ॥
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥ ५२ ॥
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ ५३ ॥
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः ।दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ ५४ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ५५ ॥
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय ।यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥ ५६ ॥
असुराणां सहस्राणि बहूनि सुरसत्तमः ।अजयद्बाहुवीर्येण भगवान्पाकशासनः ॥ ५७ ॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ ५८ ॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।रथे रथे शतं नागाः पद्मिनो हेममालिनः ॥ ५९ ॥
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः ।गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥ ६० ॥
उपह्वरे निवसतो यस्याङ्के निषसाद ह ।गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ॥ ६१ ॥
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् ।त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥ ६२ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ६३ ॥
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय ।यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥ ६४ ॥
इमां वै वसुसंपन्नां वसुधां वसुधाधिपः ।ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥ ६५ ॥
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः ।सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥ ६६ ॥
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ॥ ६७ ॥
चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये ।ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥ ६८ ॥
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् ।सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥ ६९ ॥
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे ।यत्स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते ॥ ७० ॥
राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् ।येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥ ७१ ॥
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने ।स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ॥ ७२ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ७३ ॥
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय ।यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥ ७४ ॥
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः ।पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥ ७५ ॥
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ ७६ ॥
मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत ।मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥ ७७ ॥
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ ७८ ॥
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत ।स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ॥ ७९ ॥
तमियं पृथिवी सर्वा एकाह्ना समपद्यत ।धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥ ८० ॥
य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् ।अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥ ८१ ॥
यौवनाश्वो यदाङ्गारं समरे समयोधयत् ।विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥ ८२ ॥
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ८३ ॥
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च ।अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ॥ ८४ ॥
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् ।अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ॥ ८५ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ८६ ॥
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय ।य इमां पृथिवीं सर्वां विजित्य सहसागराम् ॥ ८७ ॥
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप ।ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुंधराम् ॥ ८८ ॥
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च ।तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ॥ ८९ ॥
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् ।व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥ ९० ॥
अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ॥ ९१ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ९२ ॥
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय ।यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ॥ ९३ ॥
यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् ।ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥ ९४ ॥
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ॥ ९५ ॥
शतं राजसहस्राणि शतं राजशतानि च ।सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ॥ ९६ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ९७ ॥
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय ।यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥ ९८ ॥
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः ।हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥ ९९ ॥
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः ।कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ॥ १०० ॥
रथं रथं शतं चाश्वा देशजा हेममालिनः ।अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ॥ १०१ ॥
एतद्धनमपर्यन्तमश्वमेधे महामखे ।शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ॥ १०२ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १०३ ॥
गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय ।यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥ १०४ ॥
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ॥ १०५ ॥
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन ।लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥ १०६ ॥
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः ।अयजत्स महातेजाः सहस्रं परिवत्सरान् ॥ १०७ ॥
शतं गवां सहस्राणि शतमश्वशतानि च ।उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥ १०८ ॥
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥ १०९ ॥
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।दक्षिणामददद्राजा वाजिमेधमहामखे ॥ ११० ॥
यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ ।तावतीरेव गाः प्रादादामूर्तरयसो गयः ॥ १११ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ ११२ ॥
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय ।सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ॥ ११३ ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन ॥ ११४ ॥
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥ ११५ ॥
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः ।ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥ ११६ ॥
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ।सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ॥ ११७ ॥
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् ।घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ।न तत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः ॥ ११८ ॥
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे ।आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ ११९ ॥
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥ १२० ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२१ ॥
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥ १२२ ॥
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥ १२३ ॥
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा ।योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥ १२४ ॥
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् ।पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥ १२५ ॥
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा ।यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥ १२६ ॥
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥ १२७ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२८ ॥
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।यमभ्यषिञ्चन्संभूय महारण्ये महर्षयः ॥ १२९ ॥
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥ १३० ॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ।ततो राजेति नामास्य अनुरागादजायत ॥ १३१ ॥
अकृष्टपच्या पृथिवी पुटके पुटके मधु ।सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥ १३२ ॥
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः ।यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥ १३३ ॥
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः ।सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ॥ १३४ ॥
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् ।ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ॥ १३५ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १३६ ॥
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं न मे राजन्वाचमिमां शृणोषि ।न चेन्मोघं विप्रलप्तं मयेदं पथ्यं मुमूर्षोरिव सम्यगुक्तम् ॥ १३७ ॥
सृञ्जय उवाच ।शृणोमि ते नारद वाचमेतां विचित्रार्थां स्रजमिव पुण्यगन्धाम् ।राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तां शोकनिर्णाशनार्थम् ॥ १३८ ॥
न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैव त्वां नारदाहं विशोकः ।शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात् ॥ १३९ ॥
अमोघदर्शिन्मम चेत्प्रसादं सुताघदग्धस्य विभो प्रकुर्याः ।मृतस्य संजीवनमद्य मे स्यात्तव प्रसादात्सुतसंगमश्च ॥ १४० ॥
नारद उवाच ।यस्ते पुत्रो दयितोऽयं वियातः स्वर्णष्ठीवी यमदात्पर्वतस्ते ।पुनस्ते तं पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च ॥ १४१ ॥
« »