Click on words to see what they mean.

पराशर उवाच ।वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥ १ ॥
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥ २ ॥
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥ ३ ॥
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते ।तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥ ४ ॥
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् ।तादृशं कुरुते रूपमेतदेवमवैहि मे ॥ ५ ॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥ ६ ॥
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥ ७ ॥
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥ ८ ॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।स शब्दमात्रफलभाग्राजा भवति तस्करः ॥ ९ ॥
स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम् ।धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥ १० ॥
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥ ११ ॥
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः ।शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥ १२ ॥
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः ।सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥ १३ ॥
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते ।अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥ १४ ॥
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः ।अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ १५ ॥
प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः ।न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥ १६ ॥
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप ।यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥ १७ ॥
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् ।याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥ १८ ॥
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च ।तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ १९ ॥
अतिक्रमे मज्जमानो विविधेन नरः सदा ।तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥ २० ॥
दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥ २१ ॥
« »