Click on words to see what they mean.

वैशंपायन उवाच ।ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः ।ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥ १ ॥
व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥ २ ॥
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः ।संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ॥ ३ ॥
जनक उवाच ।आगमे यदि वापाये ज्ञातीनां द्रविणस्य च ।नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥ ४ ॥
अश्मोवाच ।उत्पन्नमिममात्मानं नरस्यानन्तरं ततः ।तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ॥ ५ ॥
तेषामन्यतरापत्तौ यद्यदेवोपसेवते ।तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ॥ ६ ॥
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ॥ ७ ॥
स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् ।परिक्षीणः परस्वानामादानं साधु मन्यते ॥ ८ ॥
तमतिक्रान्तमर्यादमाददानमसांप्रतम् ।प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ ९ ॥
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः ।परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥ १० ॥
तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् ।सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥ ११ ॥
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः ।अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥ १२ ॥
एवमेतानि दुःखानि तानि तानीह मानवम् ।विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ॥ १३ ॥
जरामृत्यू ह भूतानि खादितारौ वृकाविव ।बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ १४ ॥
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः ।अपि सागरपर्यन्तां विजित्येमां वसुंधराम् ॥ १५ ॥
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् ।प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥ १६ ॥
पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप ।अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ॥ १७ ॥
सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैः ।अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥ १८ ॥
प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च ।प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥ १९ ॥
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः ।तथैव सुखदुःखानि विधानमनुवर्तते ॥ २० ॥
आसनं शयनं यानमुत्थानं पानभोजनम् ।नियतं सर्वभूतानां कालेनैव भवन्त्युत ॥ २१ ॥
वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः ।स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ॥ २२ ॥
कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च ।सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥ २३ ॥
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ॥ २४ ॥
व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् ।रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ॥ २५ ॥
निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना ।दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ॥ २६ ॥
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः ।दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ॥ २७ ॥
अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥ २८ ॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ॥ २९ ॥
अहमेतत्करोमीति मन्यते कालचोदितः ।यद्यदिष्टमसंतोषाद्दुरात्मा पापमाचरन् ॥ ३० ॥
स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः ।दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः ॥ ३१ ॥
इति कालेन सर्वार्थानीप्सितानीप्सितानि च ।स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥ ३२ ॥
वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे ।ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ॥ ३३ ॥
शीतमुष्णं तथा वर्षं कालेन परिवर्तते ।एवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥ ३४ ॥
नौषधानि न शास्त्राणि न होमा न पुनर्जपाः ।त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥ ३५ ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।समेत्य च व्यतीयातां तद्वद्भूतसमागमः ॥ ३६ ॥
ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः ।ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ३७ ॥
मातृपितृसहस्राणि पुत्रदारशतानि च ।संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ ३८ ॥
नैवास्य कश्चिद्भविता नायं भवति कस्यचित् ।पथि संगतमेवेदं दारबन्धुसुहृद्गणैः ॥ ३९ ॥
क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः ।कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ।अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ॥ ४० ॥
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ ४१ ॥
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् ।यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ॥ ४२ ॥
संनिमज्जज्जगदिदं गम्भीरे कालसागरे ।जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥ ४३ ॥
आयुर्वेदमधीयानाः केवलं सपरिग्रहम् ।दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥ ४४ ॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥ ४५ ॥
रसायनविदश्चैव सुप्रयुक्तरसायनाः ।दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥ ४६ ॥
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः ।दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥ ४७ ॥
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः ।जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ॥ ४८ ॥
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः ।नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ॥ ४९ ॥
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः ।पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ॥ ५० ॥
नायमत्यन्तसंवासो लभ्यते जातु केनचित् ।अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ ५१ ॥
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः ।न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ॥ ५२ ॥
न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा ।आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥ ५३ ॥
चरितब्रह्मचर्यो हि प्रजायेत यजेत च ।पितृदेवमहर्षीणामानृण्यायानसूयकः ॥ ५४ ॥
स यज्ञशीलः प्रजने निविष्टः प्राग्ब्रह्मचारी प्रविभक्तपक्षः ।आराधयन्स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम् ॥ ५५ ॥
सम्यग्घि धर्मं चरतो नृपस्य द्रव्याणि चाप्याहरतो यथावत् ।प्रवृत्तचक्रस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु ॥ ५६ ॥
व्यास उवाच ।इत्येवमाज्ञाय विदेहराजो वाक्यं समग्रं परिपूर्णहेतुः ।अश्मानमामन्त्र्य विशुद्धबुद्धिर्ययौ गृहं स्वं प्रति शान्तशोकः ॥ ५७ ॥
तथा त्वमप्यच्युत मुञ्च शोकमुत्तिष्ठ शक्रोपम हर्षमेहि ।क्षात्रेण धर्मेण मही जिता ते तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ॥ ५८ ॥
« »