Click on words to see what they mean.

युधिष्ठिर उवाच ।धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ १ ॥
लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ २ ॥
कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् ।दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ ३ ॥
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः ।इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह ॥ ४ ॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।कदा वयं भविष्यामो राज्यं हित्वा परंतप ॥ ५ ॥
भीष्म उवाच ।नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम् ।पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम् ॥ ६ ॥
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥ ७ ॥
ईशोऽयं सततं देही नृपते पुण्यपापयोः ।तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ ८ ॥
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः ।अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ ९ ॥
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः ।विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥ १० ॥
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ ११ ॥
अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः ।त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसंघाः ॥ १२ ॥
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप ।यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ १३ ॥
निर्जितेनासहायेन हृतराज्येन भारत ।अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ १४ ॥
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ १५ ॥
वृत्र उवाच ।सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम् ।न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ १६ ॥
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः ।परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ १७ ॥
क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।सावशेषेण कालेन संभवन्ति पुनः पुनः ॥ १८ ॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥ १९ ॥
एवं संसरमाणानि जीवान्यहमदृष्टवान् ।यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ २० ॥
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥ २१ ॥
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते ।गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ २२ ॥
भीष्म उवाच ।कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् ।तं भाषमाणं भगवानुशना प्रत्यभाषत ।भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ॥ २३ ॥
वृत्र उवाच ।प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् ।मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥ २४ ॥
गन्धानादाय भूतानां रसांश्च विविधानपि ।अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ २५ ॥
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा ।अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥ २६ ॥
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ २७ ॥
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ।ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥ २८ ॥
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः ।मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ २९ ॥
नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥ ३० ॥
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् ।निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥ ३१ ॥
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः ।किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ ३२ ॥
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ।ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥ ३३ ॥
इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह ।मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः ॥ ३४ ॥
« »