Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं भवति पापात्मा कथं धर्मं करोति वा ।केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥ १ ॥
भीष्म उवाच ।विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि ।शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥ २ ॥
विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते ।प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ ॥ ३ ॥
ततस्तदर्थं यतते कर्म चारभते पुनः ।इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥ ४ ॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ५ ॥
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च ।न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ ६ ॥
व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते ।व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन ॥ ७ ॥
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति ।सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ॥ ८ ॥
उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् ।अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥ ९ ॥
पापं चिन्तयते चैव प्रब्रवीति करोति च ।तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥ १० ॥
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ।स नेह सुखमाप्नोति कुत एव परत्र वै ॥ ११ ॥
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु ।यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥ १२ ॥
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ।कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते ॥ १३ ॥
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते ।प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति ॥ १४ ॥
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः ।तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥ १५ ॥
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् ।स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ॥ १६ ॥
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत ।प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ॥ १७ ॥
स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर ।अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ १८ ॥
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति ।विरज्यते तदा कामान्न च धर्मं विमुञ्चति ॥ १९ ॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।ततो मोक्षाय यतते नानुपायादुपायतः ॥ २० ॥
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च ।धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥ २१ ॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत ॥ २२ ॥
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर ।धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥ २३ ॥
« »