Click on words to see what they mean.

युधिष्ठिर उवाच ।धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥ २ ॥
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत ।यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥ ३ ॥
स निश्चयमथो कृत्वा पूजयामास देवताः ।भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥ ४ ॥
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् ।यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥ ५ ॥
अथ सौम्येन वपुषा देवानुचरमन्तिके ।प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥ ६ ॥
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत ।अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥ ७ ॥
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥ ८ ॥
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥ ९ ॥
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा ।तस्योपकारे नियतामिमां वाचमुवाच ह ॥ १० ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ११ ॥
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥ १२ ॥
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥ १३ ॥
शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥ १४ ॥
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् ।अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥ १५ ॥
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥ १६ ॥
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः ।निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥ १७ ॥
ततस्तु देववचनान्मणिभद्रो महायशाः ।उवाच पतितं भूमौ कुण्डधार किमिष्यते ॥ १८ ॥
कुण्डधार उवाच ।यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥ १९ ॥
भीष्म उवाच ।ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् ।देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥ २० ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव ।यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ।देवानां शासनात्तावदसंख्येयं ददाम्यहम् ॥ २१ ॥
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥ २२ ॥
कुण्डधार उवाच ।नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥ २३ ॥
पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम् ।भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥ २४ ॥
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥ २५ ॥
मणिभद्र उवाच ।यदा धर्मफलं राज्यं सुखानि विविधानि च ।फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥ २६ ॥
भीष्म उवाच ।ततस्तदेव बहुशः कुण्डधारो महायशाः ।अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ॥ २७ ॥
मणिभद्र उवाच ।प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥ २८ ॥
भीष्म उवाच ।ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥ २९ ॥
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः ।पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥ ३० ॥
ब्राह्मण उवाच ।अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ॥ ३१ ॥
भीष्म उवाच ।निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥ ३२ ॥
देवतातिथिशेषेण फलमूलाशनो द्विजः ।धर्मे चापि महाराज रतिरस्याभ्यजायत ॥ ३३ ॥
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥ ३४ ॥
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥ ३५ ॥
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।कालेन महता तस्य दिव्या दृष्टिरजायत ॥ ३६ ॥
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् ।तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥ ३७ ॥
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥ ३८ ॥
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥ ३९ ॥
तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥ ४० ॥
समागम्य स तेनाथ पूजां चक्रे यथाविधि ।ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥ ४१ ॥
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् ।पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ॥ ४२ ॥
ततो राज्ञां सहस्राणि मग्नानि निरये तदा ।दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥ ४३ ॥
कुण्डधार उवाच ।मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥ ४४ ॥
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः ।स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥ ४५ ॥
भीष्म उवाच ।ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् ।निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥ ४६ ॥
कुण्डधार उवाच ।एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥ ४७ ॥
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥ ४८ ॥
भीष्म उवाच ।ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥ ४९ ॥
कामलोभानुबन्धेन पुरा ते यदसूयितम् ।मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥ ५० ॥
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥ ५१ ॥
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह ।कुण्डधारप्रसादेन तपसा योजितः पुरा ॥ ५२ ॥
विहायसा च गमनं तथा संकल्पितार्थता ।धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥ ५३ ॥
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥ ५४ ॥
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः ।धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥ ५५ ॥
« »