Click on words to see what they mean.

कपिल उवाच ।वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः ।द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १ ॥
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ।कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ॥ २ ॥
आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते ।निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् ॥ ३ ॥
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ।उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः ।धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥ ४ ॥
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः ।मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥ ५ ॥
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥ ६ ॥
आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु ।राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥ ७ ॥
समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः ।प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥ ८ ॥
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः ।चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः ॥ ९ ॥
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् ।तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन ॥ १० ॥
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः ।न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥ ११ ॥
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह ।अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ।दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः ॥ १२ ॥
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः ।त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ।यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ॥ १३ ॥
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ।आगमाश्च यथाकालं संकल्पाश्च यथाव्रतम् ॥ १४ ॥
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् ।ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु ।सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ॥ १५ ॥
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् ।स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् ॥ १६ ॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम् ॥ १७ ॥
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः ।सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ॥ १८ ॥
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः ।तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ॥ १९ ॥
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ।गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ॥ २० ॥
धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः ।आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः ॥ २१ ॥
अत एवंविधा विप्राः पुराणा धर्मचारिणः ।त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ॥ २२ ॥
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः ।आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम् ॥ २३ ॥
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः ।न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः ॥ २४ ॥
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ।कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् ॥ २५ ॥
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ।सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः ॥ २६ ॥
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ।चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ॥ २७ ॥
स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः ।संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ॥ २८ ॥
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः ।साधारणः केवलो वा यथाबलमुपास्यते ॥ २९ ॥
गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति ।ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥ ३० ॥
स्यूमरश्मिरुवाच ।ये भुञ्जते ये ददते यजन्तेऽधीयते च ये ।मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः ॥ ३१ ॥
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः ।एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः ॥ ३२ ॥
कपिल उवाच ।परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये ।न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥ ३३ ॥
स्यूमरश्मिरुवाच ।भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः ।आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥ ३४ ॥
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते ।तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥ ३५ ॥
कपिल उवाच ।शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।पक्वे कषाये वमनै रसज्ञाने न तिष्ठति ॥ ३६ ॥
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् ।अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥ ३७ ॥
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् ।तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् ॥ ३८ ॥
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् ॥ ३९ ॥
वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति ।एवं वेदविदित्याहुरतोऽन्यो वातरेटकः ॥ ४० ॥
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् ।वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥ ४१ ॥
एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ।एतदन्तं च मध्यं च सच्चासच्च विजानतः ॥ ४२ ॥
समस्तत्याग इत्येव शम इत्येव निष्ठितः ।संतोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् ॥ ४३ ॥
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा जङ्गमं स्थावरं च ।सर्वं सुखं यच्छिवमुत्तमं च ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च ॥ ४४ ॥
तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् ।एतैः शब्दैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥ ४५ ॥
« »