Click on words to see what they mean.

तुलाधार उवाच ।सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः ।प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ॥ १ ॥
एते शकुन्ता बहवः समन्ताद्विचरन्ति हि ।तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः ॥ २ ॥
आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः ।पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः ॥ ३ ॥
संभावयन्ति पितरं त्वया संभाविताः खगाः ।असंशयं पिता च त्वं पुत्रानाह्वय जाजले ॥ ४ ॥
भीष्म उवाच ।ततो जाजलिना तेन समाहूताः पतत्रिणः ।वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल ॥ ५ ॥
अहिंसादिकृतं कर्म इह चैव परत्र च ।स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम् ॥ ६ ॥
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति ।अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ॥ ७ ॥
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः ।देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि ॥ ८ ॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ ९ ॥
प्रजापतिस्तानुवाच विषमं कृतमित्युत ।श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥ १० ॥
अश्रद्दधान एवैको देवानां नार्हते हविः ।तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ॥ ११ ॥
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी ।जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ॥ १२ ॥
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह ।निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ॥ १३ ॥
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना ।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १४ ॥
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः ।वयं जिज्ञासमानास्त्वा संप्राप्ता धर्मदर्शनात् ॥ १५ ॥
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् ।श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः ।स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले ॥ १६ ॥
एवं बहुमतार्थं च तुलाधारेण भाषितम् ।सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ॥ १७ ॥
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः ।तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ॥ १८ ॥
ततोऽचिरेण कालेन तुलाधारः स एव च ।दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् ।स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् ॥ १९ ॥
समानां श्रद्दधानानां संयतानां सुचेतसाम् ।कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ॥ २० ॥
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप ।सावित्री प्रसवित्री च जीवविश्वासिनी तथा ॥ २१ ॥
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत ।यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ॥ २२ ॥
« »