Click on words to see what they mean.

युधिष्ठिर उवाच ।इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः ।कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥ १ ॥
धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् ।उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह ॥ २ ॥
भीष्म उवाच ।सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥ ३ ॥
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे ।लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।उभयत्र सुखोदर्क इह चैव परत्र च ॥ ४ ॥
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति ।न च पापकृतः पापान्मुच्यन्ते केचिदापदि ॥ ५ ॥
अपापवादी भवति यदा भवति धर्मवित् ।धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ॥ ६ ॥
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः ।रमते निर्हरन्स्तेनः परवित्तमराजके ॥ ७ ॥
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति ।तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥ ८ ॥
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः ।न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥ ९ ॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥ १० ॥
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् ।अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ।ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ॥ ११ ॥
न हर्तव्यं परधनमिति धर्मः सनातनः ।मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।यदा नियतिदौर्बल्यमथैषामेव रोचते ॥ १२ ॥
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा ।तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥ १३ ॥
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः ।न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥ १४ ॥
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् ।बहुधाचरितं पापमन्यत्रैवानुपश्यति ॥ १५ ॥
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा ।न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥ १६ ॥
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः ।तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥ १७ ॥
यदा नियतिकार्पण्यमथैषामेव रोचते ।न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ॥ १८ ॥
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः ।न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥ १९ ॥
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति ।यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ॥ २० ॥
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् ।यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥ २१ ॥
अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान् ।एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥ २२ ॥
यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत् ।अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ॥ २३ ॥
सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः ।पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥ २४ ॥
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा ।सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥ २५ ॥
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम ।तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥ २६ ॥
« »