Click on words to see what they mean.

युधिष्ठिर उवाच ।भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः ।संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥ १ ॥
व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ॥ २ ॥
तयोरावसथावास्तां रमणीयौ पृथक्पृथक् ।नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥ ३ ॥
ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् ।यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ॥ ४ ॥
सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा ।फलानि शातयामास सम्यक्परिणतान्युत ॥ ५ ॥
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः ।तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ॥ ६ ॥
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् ।कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥ ७ ॥
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च ।इत एव गृहीतानि मयेति प्रहसन्निव ॥ ८ ॥
तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः ।स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ।गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ॥ ९ ॥
अदत्तादानमेवेदं कृतं पार्थिवसत्तम ।स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ।शीघ्रं धारय चौरस्य मम दण्डं नराधिप ॥ १० ॥
इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् ।अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥ ११ ॥
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् ।अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ॥ १२ ॥
तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् ।किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥ १३ ॥
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् ।प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥ १४ ॥
अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ ।भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ॥ १५ ॥
सुद्युम्न उवाच ।प्रमाणं चेन्मतो राजा भवतो दण्डधारणे ।अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥ १६ ॥
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः ।ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥ १७ ॥
व्यास उवाच ।छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना ।नान्यं वै वरयामास तस्माद्दण्डादृते वरम् ॥ १८ ॥
ततः स पृथिवीपालो लिखितस्य महात्मनः ।करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥ १९ ॥
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् ।धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ॥ २० ॥
शङ्ख उवाच ।न कुप्ये तव धर्मज्ञ न च दूषयसे मम ।धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥ २१ ॥
स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि ।देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ॥ २२ ॥
व्यास उवाच ।तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥ २३ ॥
प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ ।ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥ २४ ॥
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया ।मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ॥ २५ ॥
लिखित उवाच ।किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते ।यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥ २६ ॥
शङ्ख उवाच ।एवमेतन्मया कार्यं नाहं दण्डधरस्तव ।स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥ २७ ॥
व्यास उवाच ।स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा ।प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ २८ ॥
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् ।उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ॥ २९ ॥
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम ।दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥ ३० ॥
« »